________________
स्वोपज्ञवृत्ति
विभूषितं योगशास्त्रम्
॥ १०१६ ॥
Jain Education
आत्मशब्देन शरीरमुच्यते, आत्मन्यधि अध्यात्मं शरीरान्तर्गतं वायुमाश्रित्य सोम-सूर्ययोरभ्यासयोगेन कालनिर्णयं कालावधारणं जानीयात् ॥ ११७ ॥
कालक्षणं जिज्ञापयिषुः प्रस्तौति-
आध्यात्मिकविपर्यासः संभवेद्व्याधितोऽपि हि ।
तनिश्चयाय बध्नामि बाह्यं कालस्य लक्षणम् ॥ ११८ ॥
आध्यात्मिकस्य शरीरान्तर्गतस्य वायोर्व्याधिनाऽपि विपर्ययः संभवति, न ततः कालज्ञानं स्फुटं भवति, ततस्तनिश्वयाय कालनिश्चयाय बाह्यं कालस्य लक्षणं बध्नामि ॥ ११८ ॥
नेत्र- श्रोत्र - शिराभेदात् स त्रिविधलक्षणः । निरीक्ष्यः सूर्यमाश्रित्य यथेष्टमपरः पुनः ॥ ११९ ॥
स च कालो नेत्र - श्रोत्र - शिरोभेदात् त्रिविधं लक्षणं ज्ञापकं यस्य स तथा सूर्यमाश्रित्यालम्ब्य निरीक्षणीयः । परस्त्रिविधादन्यो यथेष्टं स्वेच्छया निरीक्षणीयः ॥ ११९ ॥
१ बाह्य काललक्षणं-खं. संपू. ॥ २ अध्या० - संपू. खं. हे. मु. ॥
३ अध्या०-खं. मु. ॥
For Private & Personal Use Only
पञ्चमः
प्रकाशः
श्लोकौ
११८-११९
।। १०१६ ।।
5
चन्द्रनाडी
माश्रित्य
वायुचारस्य फलं तथा
काल
निर्णयो
पायाः
10
www.jainelibrary.org