________________
स्वोपज्ञवृति
विभूषितं योगशास्त्रम्
॥ १००८ ॥
Jain Education Inte
एकादश दिनानि वहति वायौ षण्णवत्यधिकानि दिनानां षट् शतानि जीवति, विंशत्यधिकसप्तशतीमध्यादेकस्याचतुर्विंशतेरपनयने एतदेव भवति ॥ ९७ ॥
तथा-
तथैव द्वादशाहानि वा वहति जीवति । दिनानां षट्शतीमष्टचत्वारिंशत्समन्विताम् ॥ ९८ ॥
द्वादशाहानि हति वायौ अष्टचत्वारिंशदधिकां दिनपट्शतीं जीवति, षण्णवत्यधिकषट्शतीमध्यात् द्वयोश्चतुर्विंशत्योरपनयने एतदेव भवति ।। ९८ ।।
तथा-
त्रयोदश दिनान्यर्कनाडीचारिण मारुते ।
जीवेत् पञ्चशतीमह्नां षट्सप्ततिदिनाधिकाम् ॥ ९९ ॥
त्रयोदश दिनानि वहति वायौ षट्सप्तत्यधिकां दिनपञ्चशतीं जीवेत्, अष्टचत्वारिंशदधिकषट्शतीमध्यात्तिसृणां चतुर्विंशतीनामपनयने ऐतदेव भवति ।। ९८ ।।
१ भवत्येतदेव - मु. ॥
For Private & Personal Use Only
पञ्चमः
प्रकाशः
लोकौ
९८-९९
॥ १००८ ॥
5
सूर्यनाडी
माश्रित्य
वायुचारस्य विविधानि
फलानि
10
w.jainelibrary.org