________________
स्वोपक्ष
वृत्तिविभूषितं योगशास्त्रम्
पञ्चमः प्रकाशा श्लोको ९३-९४ ॥१००६॥
॥१००६॥
5
पट् दिनान्यर्कनाढ्यां वहमाने वायौ षट्पञ्चाशदधिकं दिनसहस्रं जीवति, अशीत्यधिकसहस्रादेकचतुर्विंशत्यपनयने एतदेव भवति ॥ ९२॥ तथा--
सहस्रं साष्टकं जीवेद्वायौ सप्ताहवाहिनि ।
सषट्त्रिंशन्नवशती जीवेत्त्वष्टाहवाहिनि ॥ ९३ ॥ सप्ताहवाहिनि वायावष्टोत्तरं दिनसहस्रं जीवेत् , षट्पञ्चाशदधिकसहस्रात् द्वयोश्चतुर्विंशत्योरपनयने एतदेव भवति । अष्टाहवाहिनि तु वायौ षट्त्रिंशदधिकां दिननवशती जीवेत् , अष्टोत्तरसहस्रात् तिसृणां चतुर्विंशतीनामपनयने एतदेव भवति ॥ ९३॥ तथा--
एकत्रैव नवाहानि तथा वहति मारुते ।
अह्नामष्टशती जीवेचत्वारिंशदिनाधिकाम् ॥ ९४ ॥ नव दिनानि वहति वायौ चत्वारिंशदधिकां दिष्टिशती जीवेत् , पत्रिंशदधिकनवशतीमध्याच्चतसृणां चतुर्विंशतीनामपनयने एतदेव भवति ॥ ९४ ॥
१ जीवेदशाह-मु. शां. ॥ २०वाहिनि तु वाया-शां. ॥ ३ स्रात् अष्टाचत्वारिंशदपनयने-शां.॥ ४ दिनानामष्ट-मु.॥
KHORRHEHREHICHIEREHCHETEHRICHCHHereBIRHICHCHHEME
सूर्यनाडीमाश्रित्य वायुचारस्य विविधानि
फलानि
10
Jain Education in
का
For Private & Personal Use Only
w.jainelibrary.org