________________
॥ १००५॥
वहन दिनानि चत्वारि तुर्ये ऽब्दे मृत्यवे मरुत् ।
साशीत्यहःसहस्रे तु पञ्चाहानि वहन् पुनः ॥ ९० ॥ तथैव सूर्यनाड्यां चत्वारि दिनानि वहन् वायुश्चतुर्थे वर्षे मृत्यवे। पञ्च दिनानि तथा वहन् वायुरशीत्यधिक दिनसहस्र वर्षत्रये इत्यर्थः ॥९० ॥ तथा--
एक-द्वि-त्रि-चतुः-पञ्चचतुर्विंशत्यंहक्षयात् ।
षडादीन् दिवसान पञ्च शोधयेदिह तद्यथा ॥ ९१ ॥ साशीत्यहःसहस्रमध्यादेकस्या द्वयोस्तिसृणां चतसृणां पञ्चानां चतुर्विंशतीनां यथाक्रमं पातनेन पट् सप्ताष्टौ नव दश च दिनानि शोधयेत् , तद्गतं कालं जानीयात् । तद्यथेति विवरणोपन्यासश्चतुर्भिः श्लोकैः ॥ ९१ ॥
पढें दिनानामध्यर्कं वहमाने समीरणे ।
जीवत्यहां सहस्रं षट्पञ्चाशदिवसाधिकम् ॥ ९२ ॥ १ लथा वहन्-मु.॥ २०त्यहाक्षयात्-संपू. शां. मु.॥ ३ तद्गतं च कालं-मु.॥
॥१००५॥
Jain Education Inte
For Private & Personal Use Only
w.jainelibrary.org