________________
स्वोपश
वृत्तिविभूषितं
प्रकाशः श्लोकाः ८७-८८-८९ ॥१००४॥
योगशास्त्रम्
॥ १००४॥
HEHCHCHEHERCHOICHCHEHEMSHEREMIEREHEHEHEHRITESHEKSHEHENDI
पौष्ण इत्युक्तं तस्य स्वरूपमाह
जन्मऋक्षगते चन्द्रे समसप्तगते रखो।
पौष्णनामा भवेत् कालो मृत्युनिर्णयकारणम् ॥ ८७ ॥ यदा जन्मनक्षत्रे चन्द्रः समसप्तगतश्च सूर्यो भवति तदा पौष्णः कालः ॥ ८७॥ तस्मिन् सूर्यनाडीप्रवाहेण कालज्ञानमाह--
दिनार्धं दिनमेकं च तदा सूर्ये मरुद्वहन् ।
चतुर्दशे द्वादशेऽब्दे मृत्यवे भवति क्रमात् ॥ ८८ ॥ दिनाधं सूर्यनाड्यां वहन् वायुश्चतुर्दशे वर्षे, दिनं तु वहन् द्वादशे वर्षे मृत्यवे भवति ॥ ८८॥
तथैव च वहन् वायुरहोरात्रं द्वयहं त्र्यहम् ।
दशमा-ऽष्टम-षष्ठाब्देष्वन्ताय भवति क्रमात् ॥ ८९॥ तथैव सूर्यनाड्यामहोरात्रं वहन् वायुर्दशमे वर्षे, द्वयहं वहन्नष्टमे वर्षे, व्यहं वहन् षष्ठे वर्षे मृत्यवे भवति ॥ ८९ ॥ १ यदा-मु. ॥ २ द्वादशेऽम्दे मृत्यवे स्यात् ॥ ८८ ॥ तथा तथैव च-मु. ॥
BREMEHEMEHEHRENCHEHRENCHERCHCHHORRON.PraMICHHEHEK
संक्रान्ती. राश्रित्य वायूनां फलानि
Jain Education in
nal
For Private & Personal Use Only
elww.jainelibrary.org