________________
11:388 11
Jain Education Int
मुहूर्त्तात् परतो मुहूर्तोत्तरकालं चिन्ता भवेत्, यद्वा ध्यानान्तरं आलम्बनमेदेन भिन्नं ध्यानं भवेत् न पुनरेकमेव ध्यानं मुहूर्त्तात् परतो भवति तत्स्वाभाव्यादिति । एवं चैकस्मादर्थाद् द्वितीयमर्थमालम्बमानस्य पुनस्तृतीयं चतुर्थं च दीर्घाऽपि दीर्घकालाऽपि ध्यानसंततिर्भवेत्, मुहूर्त्तानन्तरं च प्रथमे ध्याने समाप्तप्राये आलम्बनान्तरे तद्विवृद्धयर्थं ध्यानभावनाः कुर्वीत ॥ ११६ ॥
तदेवाह --
मैत्री प्रमोद - कारुण्य- माध्यस्थ्यानि नियोजयेत् । धर्म्यध्यानमुपस्कर्तुं तद्धि तस्य रसायनम् ॥ ११७ ॥
64
जिमिदाच स्नेहने " [ धा० पा० ४ ३७ ], मेद्यति स्निह्यतीति मित्रम् तस्य भावः समस्तसत्त्वविषयः स्नेह| परिणामो मैत्री । प्रमोदनं प्रमोदो वंदनप्रसादादिभिर्गुणाधिकेष्वभिव्यज्यमानान्तर्भक्तिरनुरागः । करुणैव कारुण्यं दीनादिष्व - | नुकम्पा रागद्वेषयोरन्तरालं मध्यम्, तत्र स्थितो मध्यस्थः अरागद्वेषवृत्तिः, तद्भावो माध्यस्थ्यमुपेक्षा । तानि आत्मनि नियोजयेत् । किमर्थम् ? धर्म्यध्यानमुपस्कर्तुं त्रुट्यतो ध्यानस्य पुनर्ध्यानान्तरेण सन्धानं कर्तुम् । कुत इत्याह- तद्धि तस्य रसायनम्, तत् मैत्र्यादिनियोजनं हिर्यस्मात्तस्य ध्यानस्य जराजर्जरस्येव शरीरस्य त्रुय्यतो रसायनमिव रसायनम् ॥ ११७ ॥
१ मनःप्रसादा० - शां. ॥ २ धर्मध्यान० - शां. ॥
For Private & Personal Use Only
aaaaaaaaaaan
10
॥ ९४९ ॥
www.jainelibrary.org