________________
॥९४७॥
एतदेवाह
मोक्षः कर्मक्षयादेव स चात्मज्ञानतो भवेत् ।
ध्यानसाध्यं मतं तच्च तद्धयानं हितमात्मनः ॥ ११३ ॥ मोक्षः खरूपलाभलक्षणः कर्मणां खरूपावरणीयानां क्षयादेव, नान्यथा इत्येतदविवादसिद्धम् । स च कर्मक्षय आत्मज्ञानादेव भवतीत्यत्राप्यविवादः। तच्चात्मज्ञानं ध्यानसाध्यं 'ध्यानेनैव साध्यते, ध्यानस्य साध्यमेव' इत्यन्ययोगव्यवच्छेदस्वयोगव्यवस्थाभ्यां ध्यानसाध्यता। तत् तस्माद्धेतोर्ध्यानमात्मनो हितमिति प्रकृतम् ॥ ११३॥
ननु पूर्वमर्थप्राप्तयेऽनर्थपरिहाराय च साम्यमुक्तम् , इदानीं तु ध्यानस्यात्महितत्वमुच्यते, तत् कस्य प्राधान्यम् ? उच्यतेद्वयोरपि प्राधान्यं नान्तरीयकत्वात् ॥ ११३ ॥ एतदेवाह--
न साम्येन विना ध्यानं न ध्यानेन विना च तत् ।
निष्कम्पं जायते तस्माद् द्वयमन्योन्यकारणम् ॥ ११४ ॥ साम्यं विना न ध्यानं भवति, न च ध्यानं विना साम्यं भवति । एवं तह-तरेतराश्रयम् ? नैवम् , साम्यमन्तरेण है ध्यानं न भवत्येव, ध्यानं तु विना साम्यं भवदपि निष्कम्पं न भवतीति इतरेतराश्रयदोपाभावः। एवं च सति द्वयमन्योन्यस्य हेतुत्वेनावतिष्ठते ॥ ११४ ॥
॥९४७॥
Jain Education Intera
For Private & Personal Use Only
Sewjainelibrary.org