________________
चतुर्थः
स्वोपज्ञबृत्तिविभूषितं
योगशास्त्रम्
॥९४६॥
BEHCHEHERSHERMELEHREACHERCHRISHCHETHERENCHHEHENSIK
साम्यवासितचेतसां योगिनामत एव विषयेभ्यो विरक्तानामुपशाम्येत् कषायाग्निरित्यनर्थनिषेधः, बोधदीपः समुन्मिषेदित्यर्थप्राप्तिः ॥ १११॥
प्रकाशः तदेवं कषायजयमिन्द्रियजयेन, इन्द्रियजयं मनःशुद्धया, मनःशुद्धिं राग-द्वेषजयेन, राग-द्वेषजयं समत्वेन, समत्वं च
इस श्लोकः ११२ भावनाहेतुकनिर्ममत्वेन प्रतिपाद्योत्तरं प्रकरणं प्रक्रमते
॥ ९४६॥ समत्वमवलम्ब्याथ ध्यानं योगी समाश्रयेत् । विना समत्वमारब्धे ध्याने स्वात्मा विडम्ब्यते ॥ ११२ ॥
साम्यफला
भिधानम् ___ अथानन्तरं योगी मुनिः समत्यमवलम्ब्य दृढं चेतसि व्यवस्थाप्य ध्यानं वक्ष्यमाणलक्षणं समाश्रयेत् कुर्यात् । यद्यपि है। ध्यानमपि समत्वरूपमेव, तथापि विशिष्टतरं साम्यं ध्यानमुच्यते, ध्यानरूपतायोग्यं त्वाभ्यासिकं साम्यमिति न पौनरुक्त्यम् । व्यतिरेकमाह--अनुप्रेक्षादिबललब्धं समत्वं विनाऽऽरब्धे ध्याने स्वकीय एवात्मा विडम्ब्यते । तथाहि--
इन्द्रियाणि न गुप्तानि मनःशुद्धिर्न वा कृता। राग-द्वेषौ न च जितौ निर्ममत्वं न निर्मितम् ॥ १॥ ___ नाभ्यस्ता समता किन्तु गतानुगतिकत्वतः। मूढरारभ्यते ध्यानं लोकद्वयपथच्युतैः ॥२॥ यथाविधि तु ध्यानं विधीयमानं न विडम्बनाय, प्रत्युतात्महिताय ॥११२॥
१ बोधिदीपः-हेसं. मु.॥ २ कुर्यात्-नास्ति मु.॥ ३ समत्वमेव-मु.॥ ४ रागद्वेषौ जितौ नैव-मु.॥ ५ यथाविधि ध्यानं तु विधीयमानं न विडम्बना, प्रत्युतात्महिताय-मु.॥
Jain Education Inter
For Private & Personal Use Only
ww.jainelibrary.org