________________
॥ ९४३ ॥
Jain Education Internation
eeeeeee
अकामनिर्जरा यथाप्रवृत्तिकरणेन गिरिसरिदुपलघोलनाकल्पेनाकामस्य निरभिलाषस्य या निर्जरा कर्मप्रदेश विचटनरूपा सैव रूपं यस्य तस्मात् । पुण्यादिति पुण्यं न पुण्यप्रकृतिरूपम्, किन्तु कर्मलाघवरूपम्, तस्मात् । जन्तोः शरीरिणः प्रजायते | भवति । किं तदित्याह - स्थावरत्वादेकेन्द्रियजातिसह चारिस्थावरनामकर्मोदयकृतात् पर्यायविशेषात् त्रसत्वं वा त्रसनामकर्मा| दयजं द्वीन्द्रियत्वादिसहचारि तिर्यक्त्वं वा पञ्चेन्द्रियतिर्यग्रूपता, कथञ्चन विशिष्टात् कर्मलाघवात् ॥ १०७ ॥
तथा-
मानुष्यमार्यदेशश्च जातिः सर्वाक्षपाटवम् ।
आयु प्राप्यते तत्र कथञ्चित् कर्मलाघवात् ॥ १०८ ॥
मानुषस्य भावो मानुष्यं कुतोऽपि कर्मलाघवात् युगच्छिद्रे शमिला प्रवेशन्यायेन । ततोऽपि शक- यवनाद्यनार्यदेशपरि| हारेणाऽऽर्यदेशो मगधादिः । ततोऽप्यार्यदेशप्राप्तावपि जाति: अन्त्यजादिपरिहारेणोत्तमजातिः, जात्या कुलमुपलक्ष्यते । जातिकुल प्राप्तावपि सर्वाक्षपाटवमहीनपञ्चेन्द्रियता । तत्र सर्वाक्षपाटवेऽपि दीर्घमायुः कथञ्चित्कर्मलाघवात् अशुभस्य कर्मणो लाघवात् अपचयात्, उपलक्षणात् पुण्यस्योपचयाच्च प्राप्यते, न ह्यल्पायुः किञ्चनैहिकामुष्मिकं वा कार्य कर्तुं शक्तः, भगवन्तोऽपि वीतरागा " हे आयुष्मन् ! गौतम !" इत्यादि वदन्तो दीर्घायुष्टुं सर्वगुणेभ्योऽधिकमाचचक्षिरे ॥ १०८ ॥
तथा-
प्राप्तेषु पुण्यतः श्रद्धा कथक - श्रवणेष्वपि । तत्त्वनिश्चयरूपं तद्बोधिरत्नं सुदुर्लभम् ॥ १०९ ॥
For Private & Personal Use Only
daaraalaaicode
Belodiese
10
॥ ९४३ ॥ ainelibrary.org