________________
॥ ९२९॥
HREEHOMEHEHENSHEHCHEHENGEEHETCHEHEREICHERRIERREVE
___ अञ्जनगिरीणां चतुसृषु दिक्षु प्रत्येकं प्रत्येकं लक्षयोजनमानाः पुष्करिण्यः, तद्यथा-नन्दिषेणा, अमोघा, गोस्तूपा, सुदर्शना। नन्दोत्तरा, नन्दा, सुनन्दा, नन्दिवर्धना। भद्रा, विशाला, कुमुदा, पुण्डरीकिणी। विजया, वैजयन्ता, जयन्ता, अपराजिता। प्राक्क्रमाद् गण्याः। तासां च प्रत्येकं पञ्चयोजनशत्याः परतो लक्षयोजनायामानि पञ्चयोजनशतीपृथूनि अशोकसप्तच्छद-चम्पक-चूताभिधानान्युद्यानानि । वापीनां च मध्ये स्फाटिका दधिमुखा ललामवेदिकोद्यानादिलाञ्छनाश्चतुःषष्टियोजनसहस्रोचा योजनसहस्रमवगाढा देश अधो विस्तृताः तावदुपरि पल्याकृतयः। केचित्तु पुष्करिणीनामन्तरे द्वौ द्वौ रतिकर
पर्वतावाहुः। ते च द्वात्रिंशद्भवन्ति । दधिमुखेषु रतिकरेषु चाञ्जनवदायतनानि । द्वीपविपिक्षु रतिकराश्चत्वारो दशयोजनहै. सहस्रायामविष्कम्भा योजनसहस्रोच्चाः सर्वरत्नमया झल्लाकृतयः । तत्र दक्षिणयोः शक्रस्य उत्तरयोरीशानस्य अष्टाष्टानां
महादेवीनां योजनशतसहस्राबाधस्थाना दिक्षु जम्बूद्वीपसमाः प्रत्येकं जिनायतनभूषिता अष्टाष्ट राजधान्यः-सुजाता सौमनसा अचिर्माली प्रभाकरा पद्मा शिवा शुचिरञ्जना, चूता चूतावतंसा गोस्तूपा सुदर्शना अमला अप्सरा रोहिणी नवमी चेति, तथा रत्ना रत्नोच्चया सर्वरत्ना रत्नसंचया वसुः वसुमित्रा वसुभागा वसुन्धरा, नन्दोत्तरा नन्दा उत्तरकुरुः देवकुरुः कृष्णा कृष्णराजी रामा रामरक्षिता चेति प्रागदक्षिणक्रमात् । तत्र देवाः सर्वसम्पद्वन्तः खपरिवारानुगताः पुण्यतिथिषु सुरासुरविद्याधरादि
RCHEHEEHHETRIEVESHETROHCHETHERHETEHRISHERE
१ प्रत्येक लक्ष०-मु.॥ २ बैजयन्ती-शां. हे. विना ।। ३ जयन्ती-मु.॥ ४ दशयोजनसहस्राधोविस्तृताः-मु.॥ ५ साबाधास्थाना०-शां. खं.॥ ६ भूता भूतावतंसा-मु.॥ ७ कुरु देवकुरु-शां. विना॥
।। ९२९॥
Jain Education Intem
For Private & Personal Use Only
$2
w
.jainelibrary.org