________________
।। ९२३ ॥
Jain Education Interna
बारवई असुरट्ठा ११ मिहिल विदेहा य १२ वच्छ कोसंबी १३ । नंदिपुरं संडिल्ला १४ भद्दिलपुरमेव मलया य १५ ।। ३ ।। वइराड मच्छ १६ वरणा अच्छा १७ तह मित्तियावइ दसण्णा १८ ।
सुत्तीमई य चेदी १९ वीअभयं सिंधुसोवीरा २० ॥ ४ ॥
महुरा य सरसेणा २१ पावा भंगी अ २२ मासपुरि बट्टा २३ । साथी कुणाला २४ कोडीवरिसं च लाढा य २५ ॥ ५ ॥
१ वीरभयं - मु. विना ।।
द्वारवती नगरी, सुराष्ट्रो देशः । मिथिला नगरी, विदेहा जनपदः । वत्सा देशः, कौशाम्बी नगरी । नन्दिपुरं नगरम्, शण्डिल्यो शाण्डिल्या वा देशः । भद्दिलपुरं नगरम्, मलया देशः । वैराटो देशः, वत्सा राजधानी । अन्ये तु वत्सा देशः, वैराटं पुरं नगरमित्याहुः । वरुणा नगरम्, अच्छा देश: । अन्ये तु वरुणेषु अच्छपुरीत्याहुः । तथा मृत्तिकावती नगरी, दशार्णो देश । शुक्तिमती नगरी, चेदयो देशः । वीतभयं नगरम्, सिन्धुसौवीरा जनपदः । मथुरा नगरी, सूरसेनाख्यो देशः । पापा नगरी भङ्गयो देशः । मासपुरी नगरी, वर्तो देशः । अन्ये त्वाहुः - चेदिषु सौक्तिकावती, वीतभयं सिन्धुषु, सौवीरेषु मथुरा, सूरसेनेपु पापा, भङ्गिषु मासपुरीवट्टेति । तदतिव्यवहृतम्, परं बहुश्रुतसम्प्रदायः प्रमाणम्। तथा श्रावस्ती नगरी, कुणाला देशः । कोटी वर्ष नगरम्, लाढा देशः। श्वेतम्बिका नगरी, केकयजनपदस्यार्धम् । एतावदर्धषड्विंशतिजनपदात्मकं क्षेत्रमा भणितम् । कुत इत्याह- जत्थुष्पत्तीत्यादि । यस्मादत्र एतेषु अर्धषड्विंशतिसङ्घयेषु जनपदेषु उत्पत्तिर्जिनानां तीर्थकराणां चक्रिणां चक्रवर्तिनां रामाणां बलदेवानां कृष्णानां वासुदेवानां च तत आर्यम्” इति सिद्धसेनसूरिविरचितायां प्रवचनसारोद्धारवृत्तौ ॥ | त्रिषष्टिशलाकापुरुषचरिते द्वितीये पर्वणि तृतीये सर्गे आर्यदेशानां म्लेच्छदेशानां च नामानि आचार्यश्री हेमचन्द्रसूरिभिरित्थं
For Private & Personal Use Only
S
10
॥ ९२३ ॥
vjainelibrary.org