SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ BHENEMIERENCHCHCHEMEHENSHCHCHEMEICHEHCHCHEHENSIBICHHI ___ लोक उक्तस्वरूपो जगतां लोकदेशानां त्रयेणाऽधस्तिर्यगूर्ध्वरूपेणाऽऽकीर्णो व्याप्तः, वदन्ति हि ‘अधोलोकः, तिर्यग्लोकः, ऊर्ध्वलोकः' इति । अत्र लोके सप्तसंख्या भुवः पृथिव्यो रत्नप्रभा-शर्कराप्रभा-वालुकाप्रभा-पङ्कप्रभा-धूमप्रभा-तमःप्रभा-महातमःप्रभा यथार्थाभिधानाः, अनादिकालप्रसिद्धाऽनन्वर्थसंज्ञाश्च तद्यथा-धर्मा, वंशा, शैला, अञ्जना, रिष्टा, माधव्या, माधवी च । ताश्च प्रत्येकं रत्नप्रभाद्या अधोऽधः पृथुतराः। तासु त्रिंशत् , पञ्चविंशतिः, पञ्चदश, दश, त्रीणि, एकं पञ्चोनं नरकावासशतसहस्रम् , पञ्चैव नारकावासा यथाक्रमम् । ताश्च वेष्टिताः परिवृता अधः पार्श्वतश्च । कैः ? घनो निबिडो न तु द्रवो योऽसावम्भोधिः, महांश्चासौ वातश्च महावातो घनवातः, तनुश्वासौ वातश्च तनुवातः, तैः। किंविशिष्टैः ? महाबलैः पृथ्वीधारणसमर्थैः । तत्र सर्वासां पृथिवीनामधो घनोदधयः मध्योत्सेधे विंशतियोजनसहस्राणि, महावाताः उत्सेधे घनोदधितोसंख्यानि योजनसहस्राणि, तनुवाताश्च महावातेभ्योऽसंख्यानि योजनसहस्राणि, ततोऽप्यसंख्येयानि योजनसहस्राण्याकाशम् , एतच्च मध्ये उत्सेधमानम् । ततः परं क्रमेण हीयमानं प्रान्ते वलयतुल्यमानमिति । घनोदधिवलयविष्कम्भमानं रत्नप्रभायाः | षड् योजनानि, धनवातवलयविष्कम्भमानमर्धपञ्चमयोजनानि, तनुवातवलयविष्कम्भमानं सार्ध योजनम् । रत्नप्रभावलयमाना १ तत्र-मु.॥ २ रिष्टा मघा माधवती च-हे.॥ अरिष्टा माघव्या माधवी च-मु.। अत्रेदं ध्येयम्-मु. मध्ये तत्त्वार्थभाष्ये च 'माघष्या माधवी' इति नामोल्लेखो दृश्यते तथापि अस्मत्समीपवर्तिषु प्राचीनतालपत्रात्मकेषु चतुर्पु हस्तलिखितादर्शषु 'माधव्या माधवी' इति पाठदर्शनात् स पाठोऽस्माभिरत्र मूले स्थापितः॥ ३ प्रभाया-शां. विना॥ ४ नरका-मु.॥ For Private & Personal use only ॥९०७॥ Jain Education Intema www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy