________________
॥ ९०५ ॥
aaaa
Jain Education Inter
नरास्थिभूषणभृतां शूल- खट्वाङ्गवाहिनाम् । कपालभाजनभुजां घण्टा-नूपुरधारिणाम् ॥ ३० ॥ मद्य-मांसा ऽङ्गनाभोगप्रसक्तानां निरन्तरम् । पुतानुबद्धघण्टानां गायतां नृत्यतां मुहुः ॥ ३१ ॥ तथा-
अनन्तकायकन्दादि-फल-मूल- दलाशिनाम् । कलत्र- पुत्रयुक्तानां वनवासजुषामपि ॥ ३२ ॥
तथा-
भक्ष्या-ऽभक्ष्ये पेया-ऽपेये गम्या - गम्ये समात्मनाम् । योगिनाम्ना प्रसिद्धानां कौलाचार्यान्तवासिनाम् || ३३ || अन्येषामपि जैनेन्द्रशासनास्पृष्टचेतसाम् । क्व धर्मः क्व फलं तस्य तस्य स्वाख्यातता कथम् ॥ ३४ ॥ जैनेन्द्रस्यापि धर्मस्य यदत्रामुत्र वा फलम् । आनुषङ्गिकमेवेदं मुख्यं मोक्षं प्रचक्षते ॥ ३५ ॥ सस्यहेतौ कृषौ यद्वत् पलालाद्यानुषङ्गिकम् । अपवर्गफले धर्मे तद्वत् सांसारिकं फलम् || ३६ ॥ स्वाख्याततामिति जिनाधिपतिप्रणीतधर्माश्रितामसकृदेव विभावयन्तः । मुक्ता ममत्वविषवेगविकारदोषैः, साम्यं प्रकर्षपदवीं परमां नयन्ति ॥ ३७ ॥ धर्मस्वाख्यातताभावना १० ॥ १०२ ॥
अथ लोकभावनामाह-
कटिस्थकरवैशाखस्थानकस्थनराकृतिम् । द्रव्यैः पूर्णं स्मरेल्लोकं स्थित्युत्पत्तिव्ययात्मकैः ॥ १०३ ॥
Only
deeeeeeex
10
॥ ९०५ ॥
www.jainelibrary.org