SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ ॥९०३॥ un वेदशास्त्रपराधीनबुद्धयः सूत्रकण्ठकाः। न लेशमपि जानन्ति धर्मरत्नस्य तत्त्वतः॥३॥ गोमेध-नरमेधा-ऽश्वमेधाद्यध्वरकारिणाम । याज्ञिकानां कुतो धर्मः पाणिधातविधायिनाम् ॥ ४॥ अश्रद्धेयमसद्भूतं परस्परविरोधि च। वस्तु प्रलपतां धर्मः कः पुराणविधायिनाम् ॥५॥ असद्भूतव्यवस्थाभिः पराद् द्रव्यं जिघृक्षताम् । मृत्पानीयादिभिः शौचं स्मातादीनां कुतो ननु ? ॥ ६॥ ऋतुकाले व्यतिक्रान्ते भ्रणहत्याविधायिनाम । ब्राह्मणानां कुतो ब्रह्म ब्रह्मचर्यापलापिनाम् ॥ ७॥ अदित्सतोऽपि सर्वस्वं यजमानाजिघृक्षताम। अर्थार्थे त्यजतां प्राणान् काऽऽकिञ्चन्यं द्विजन्मनाम् ? ॥ ८॥ दिवसे च रजन्यां च मुखमापृच्छय खादताम् । भक्ष्याभक्ष्याविवेकानां सौगतानां कुतस्तपः ? ॥ ९॥ मृद्वी शय्या प्रातः पेया मध्ये भक्तं सायं पानम् । द्राक्षाखण्डं रात्रेमध्ये शाक्योपज्ञः साधुधर्मः॥ १० ॥ खल्पेष्वप्यपराधेषु क्षणात् शापं प्रयच्छताम् । लौकिकानामृषीणां न क्षमालेशोऽपि दृश्यते ॥ ११ ॥ जात्यादिमददुर्वृत्तपरिनर्तितचेतसाम् । क्व मार्दवं द्विजातीनां चतुराश्रमवर्तिनाम् ॥ १२ ॥ दम्भसंरम्भगर्भाणां बकवृत्तिजुषां बहिः। भवेदार्जवलेशोऽपि पाषण्डव्रतिनां कथम् ? ॥ १३ ॥ गृहिणी-गृह-पुत्रादिपरिग्रहवतां सदा। द्विजन्मनां कथं मुक्तिोमैककुलवेश्मनाम् ? ॥ १४ ॥ अरक्तद्विष्टमूढानां केवलज्ञानशालिनाम् । ततो भगवतामेषा धर्मस्वाख्याततार्हताम् ॥ १५ ॥ रागाद् द्वेषात् तथा मोहाद् भवेद् वितथवादिता। तदभावे कथं नामाऽर्हतां वितथवादिता ? ॥ १६ ॥ १ भक्षताम्-मु.॥ २ साधुर्धर्म:-हे. मु.॥ ३०गर्तानां-खं.॥ ४ पाषण्डि०-शां.॥ ५ वितथा वादिता-शां. खं.॥ ॥९०३॥ Jain Education Inter For Private & Personal use only Relww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy