________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
॥ ९०२ ॥
Jain Education Int
addle
इदानीमनर्थनिवृत्तेः प्राकृतैरप्याकाङ्क्षयमाणत्वाद् धर्मफलत्वमाह-रक्षो-यक्षोरग-व्याघ्र व्याला- ऽनल-गरादयः । नापकर्तुमलं तेषां यैर्धर्मः शरणं श्रितः ॥ १०१ ॥
स्पष्टः ।। १०१ ।।
इदानीं प्रधानभूतामनर्थनिवृत्तिमर्थप्राप्तिं च धर्मस्य फलमाह-धर्मो नरकपातालपातादवति देहिनः । धर्मो निरुपमं यच्छत्यपि सर्वज्ञवैभवम् ॥ १०२ ॥
नरकपातरक्षणलक्षणा अनर्थनिवृत्तिः सर्वज्ञवैभवप्राप्तिश्चार्थप्राप्तिः प्रधानभूता धर्मस्य फलम् शेषं त्वानुषङ्गिकमुक्तमिति ।
अत्रान्तरश्लोकाः-
अयं दशविधो धर्मो मिथ्यादृग्भिर्न वीक्षितः । योऽपि कश्चित् क्वचित् प्रोचे सोऽपि वाङ्मात्र नर्तनम् ॥ १ ॥ तत्त्वार्थो वाचि सर्वेषां केषाञ्चन मनस्यपि । क्रियायामपि नर्नर्ति नित्यं जिनमतस्पृशाम् ॥ २ ॥ १० मात्रवर्तनम् - खं. । ०मात्रदर्शनम् - संपू. । ० मात्रवर्णनम् - मु. ॥ २ क्रिययापि नरीनति-खं. संपू. मु.॥
For Private & Personal Use Only
dalaldar 888888
चतुर्थः
प्रकाशः
लोकौ
१०१-१०२
॥ ९०२ ॥
5
धर्मस्वाख्या
तताभाव
नायां धर्म
माहात्म्य
वर्णनम्
www.jainelibrary.org.