SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ ॥ ९०९ ॥ Jain Education Keteldieretet निरालम्बा आलम्बनस्य रज्ज्वादेरभावात्, निराधारा आधारस्य शेष - कूर्म - वराह - दिक् कुञ्जरादेः प्रमाणानुपपन्नत्वेनाभावात्, विश्वस्य चराचरभेदस्य जगत आधारः, वसुन्धरा पृथ्वी यदवतिष्ठते, नाधः पतति, तत्र धर्मान्यद् न कारणम्, | अन्वयव्यतिरेकाभ्यामन्यस्य कस्यचिदवस्थानहेतोरभावात् ॥ ९८ ॥ तथा- सूर्याचन्द्रमसावेतौ विश्वोपकृतिहेतवे । उदयेते जगत्यस्मिन् नूनं धर्मस्य शासनात् ॥ ९९ ॥ स्पष्टः ।। ९९ ।। तथा- अबन्धूनामसौ बन्धुरसखीनामसौ सखा । अनाथानामसौ नाथ धर्मो विश्वैकवत्सलः ॥ १०० ॥ अन्धूनां बन्धुरहितानामसौ धर्मो बन्धुः बन्धुकार्यस्य विपदुत्तारणादेः करणात् । असखीनां मित्ररहितानामसौ सखा, प्रीत्युत्पादकत्वात् । अनाथानामस्वामिकानामसौ नाथः, योगक्षेमकारित्वात्, यदाह -- " योगक्षेमकृद् नाथः " [[ ललितविस्तरा ] इति । अत्र हेतुः - विश्वैकवत्सलः । वत्सं लाति स्नेहेनादत्ते वत्सला गौः, तद्वत् सकलजगत्प्रीतिहेतुत्वाद् धर्मोऽपि वत्सलः ॥ १०० ॥ anal For Private & Personal Use Only 10 ॥ ९०९ ॥ www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy