SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्तिविभूषितं योगशास्त्रम् ॥ ८९८ ॥ Jain Education Inter “ मायाशीलः पुरुषो यद्यपि न करोति काञ्चदपराधम् । " सर्प इवाविश्वास्यो भवति तथाह्या (प्या)त्मदोपहतः ॥ १ ॥ [प्रशमरतौ २८ ] | इति मायाप्रतिपक्षभूता ऋजुता । अथ मुक्तिः । सा च बाह्याभ्यन्तरवस्तुषु तृष्णाविच्छेदरूपा लोभाभाव इत्यर्थः । लोभाभिभूतो हि क्रोध-मान-माया| हिंसा नृत- स्तेयाऽब्रह्म-परिग्रहदोषजालेनोपंचीयते, यदाह- “ सर्वविनाशाश्रयिणः सर्वव्यसनैकराजमार्गस्य । लोभस्य को मुखगतः क्षणमपि दुःखान्तरमुपेयात् ! ॥ १ ॥ " [प्रशमरतौ ३० ] इति लोभपरिहाररूपा निर्भयत्व - स्वपरहितात्मप्रवृत्तिमत्त्व - ममत्वाभाव- निस्सङ्गताऽपरद्रोहकत्वादिगुणयुक्ता रजोहरणादिकेष्व|प्युपकरणेष्वनभिष्वङ्गस्वभावा मुक्तिः । इति दशविधो धर्मः । तु संयम सूनृत शौच-ब्रह्म- किश्चनतानां महात्रतेषु क्षमा मार्दवाऽऽर्जव मुक्तीनां संवरप्रकरणे, तपसश्च संवरनिर्जराहेतुत्वेनोक्तत्वाद् धर्मप्रतिपादनप्रकरणे पुनरुक्तत्वमेव । उच्यते-नात्र संयमादीनां पुनर्भणनं प्रकृतम्, किन्तु संयमादिदशविधधर्मप्रतिपादनप्रकारेण भगवतामर्हतां स्वाख्यातधर्मत्वानुप्रेक्षणमेव इति धर्माणां गुणभावेन तदाख्यातॄणां भगवता - मनुप्रेक्षानिमित्तं स्तुतिरिति सर्वं समञ्जसम् ॥ ९३ ॥ १ ०पधीयते-खं. ॥ २ दोषान्तर० - संपू. ॥ For Private & Personal Use Only चतुर्थः प्रकाशः श्लोक : ९३ ॥ ८९८ ॥ 5 धर्मस्वाख्या. तताभाव नायां दश | विधयति | धर्मवर्णनम् 10 www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy