________________
॥ ८९७ ॥
dialeeeeeee
Jain Education Inter
16
'सेव्वो पुव्वकयाणं कम्माणं पावए फलविवागं ।
Bea
अवराहेसु गुणेसु अनिमित्तमित्तं परो होइ ॥ १ ॥ " [
| इति स्वकृतकर्मफलाभ्यागमचिन्तनम् ।
J
क्षमागुणानुप्रेक्षणाच्च क्षन्तव्यम् । अनायासः क्रोधनिमित्तप्रायश्चिताभावः, शुभध्यानाध्यवसायः, परसमाधानोत्पादनम्, स्तिमितप्रसन्नान्तरात्मत्वम्, प्रहरणसहायान्वेषणाभाव:, असंरम्भः, प्रसन्नमुखता, धवलविलोचनता, अस्वेदता, निष्कम्पता, परप्रहारवेदनाऽभाव इति क्षमागुणाः । इति क्रोधप्रतिपक्षः क्षमाधर्मः ।
अथ मार्दवम् । मृदुरस्तब्धः, तस्य भावः कर्म वा मार्दवं नीचैर्वृत्तिरनुत्सेकश्थ, तदुभयमपि मदनिग्रहाद् भवति | मदाश्र जातिमदादयः पूर्वमुक्ताः । ततश्च
" जाति-कुल- रूप-बल-लाभ-बुद्धि-वाल्लभ्यक- श्रुतमदान्धाः । क्लवाः परत्र चेह च हितमप्यर्थं न पश्यन्ति ।। " [ प्रशमरतौ ८० ] |इत्यादिमददोषपरिहारहेतुर्मानप्रतिपक्षो मार्दवम् ।
अथ ऋजुता । ऋजुरवक्रमनोवाक्कायकर्मा, तस्य भावः कर्म वा ऋजुता, मनोवाक्कायविक्रियाविरह इत्यर्थः, मायारहितत्वमिति यावत् । मायावी हि सर्वातिसन्धानपरतया सर्वाभिशङ्कनीयो भवति, यदाह-
१ सर्वः पूर्वकृतानां कर्मणां प्राप्नोति फलविपाकम् । अपराधेषु गुणेषु च निमित्तमात्रं परो भवति ॥
For Private & Personal Use Only
Meletele!
5
10
11 28911
www.jainelibrary.org