________________
स्वोपच
वृत्तिविभूषितं योगशास्त्रम्
द्रव्यव्रणदृष्टान्तेन मूलोत्तरगुणरूपस्य चारित्रपुरुषस्यापराधरूपो व्रण आलोचनादिना छेदान्तेन प्रायश्चित्तविधिना शोधनीयः, यदाहुर्भगवद्भद्रबाहुस्वामिपादाः;--
" तणुओ अतिक्खतुंडो असोणिओ केवलं तयालग्गो। उद्धरिउ अवयज्झइ सल्लो न मलिज्जइ वणो उ ॥१॥
चतुर्थः प्रकाशः श्लोकः ९० निर्जराभावनायामाभ्यन्तरतपःस्वरूपम् ॥८८४॥
॥८८४॥
BHERCISHEIKCHROMEREMORSEENETICKETRICKSHEKSHEELERStevel
१ "तणुओ अतिक्खतुंडो' इति तनुरेव तनुकं कशमित्यर्थः, न तीक्ष्णतुण्डमतीक्ष्णमुखमिति भावना। नास्मिन् शोणित विद्यत इत्यशोणितम् , केवलं नवरं त्वग्लग्नम्, उद्धृत्य अवउज्झति सल्लो त्ति परित्यज्यते शल्यम् , प्राकृतशैल्या तु पुल्लिङ्गनिर्देश: मसलो, न मलिजा वणो य', न च मृद्यते व्रणः अल्पत्वात् शल्यस्येति गाथार्थः। प्रथमशल्यजे अयं विधिः, द्वितीयादि शल्यजे
पुनरयम-लग्गुद्धियम्मि, लग्नमुद्धृतं लग्नोद्धृतम्, तस्मिन् द्वितीये, कस्मिन् ? अदूरगते शल्य इति योगः, मनाग दृढलग्न इति भावना। अत्र 'मलिजइ परं' ति मृद्यते यदि परं व्रण इति उद्धरणं शल्यस्य, मर्दनं व्रणस्य, पूरणं कर्णमलादिना तस्यैवतानि क्रियन्ते दूरगते तृतीये शल्य इति गाथार्थः । ‘मा वेयणा उ तो उद्धरेत्तु गालंति सोणिय चउत्थे। रुज्झउ लहुँ ति चिट्ठा वारिज्जइ' इति मा वेदना भविष्यतीति तत उद्धत्य शल्यं गालयन्ति शोणितं चतुर्थे शल्य इति। तथा रुह्यतां शीघ्रमिति चेष्टा परिस्पन्दादिलक्षणा वार्यते निषिध्यते। पञ्चमे शल्ये उद्धते व्रणोऽस्यास्तीति वणी, तस्य व्रणिनः रोद्रतरत्वाच्छल्यस्येति गाथार्थः ॥ 'रोहेइ वर्ण छट्टे' इति रोहयति व्रणं षष्ठे शल्ये उद्धते सति हितमितभोजी, हितं पथ्यं मितं स्तोकम् , अभुञ्जन वेति। यावच्छल्येन दूषितं तत्तियमित्तं ति तावन्मानं छिद्यते सप्तमे शल्ये उद्धते, किम् ? पूतिमांसादीति गाथार्थः । तहवि य अठायेति तथापि च अट्टायमाणे त्ति अतिष्ठति सति विसर्पति इत्यर्थः, गोनसभक्षितादौ रुष्क रुम्फ)कैवापि, क्रियते तदङ्गच्छेदः सहास्थिकः शेषरक्षार्थमिति गाथार्थः । एवं तावद् द्रव्यवणस्तचिकित्सा च प्रतिपादिता। अधुना भावणः प्रतिपाद्यते-'मूलुत्तरगुणरुवस्स' गाहा। इय
For Private & Personal Use Only
Jain Education Internet
ww.jainelibrary.org