SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ "उद्विज्ज निसीअज्ज व भिक्खं हिंडिज्ज मत्तगं पेहे। कुविअपिअबंधवस्स व करेइ इयरो वि तुसिणीओ ॥ १॥" [व्यवहारभाष्ये प्रथमे उद्देशके गाथा ३६८ ] एतावति तपसि कृते तस्योत्थापना क्रियते । तथा पारमन्तं प्रायश्चित्तानां तत उत्कृष्टतरमायश्चित्ताभावात् , अपराधानां वा पारमञ्चति गच्छतीत्येवंशीलं पाराश्चि, तदेव पाराश्चिकम् । तच्च महत्यपराधे लिङ्ग-कुल-गण-संघेभ्यो बहिष्करणम् । एतच्च छेदपर्यन्तं प्रायश्चित्तं व्रणचिकित्सातुल्यं पूर्वसरिभिरभिहितम् । तत्र तनुरतीक्ष्णमुखो रुधिरमप्राप्तस्त्वग्लग्नः शल्यो देहादुद्धियते, न तत्र व्रणस्य मर्दनं विधीयते शल्याल्पत्वेन व्रणस्याल्पत्वात् । द्वितीये तु लग्नोद्धतशल्ये मर्दनं क्रियते न तु कर्णमलेन पूर्यते। तृतीये तु दूरतरगतशल्ये शल्योद्धार-मलन-कर्णमलपूरणानि क्रियन्ते। चतुर्थे तु शल्यकर्षण-मर्दन रुधिरगालनानि वेदनापहारार्थ क्रियन्ते । पञ्चमे तु गाढतरावगाढशल्योद्धरणम् , ततो गमनादिचेष्टा निवार्यते। षष्ठे हित-मितभोज्यभोजनो वा शल्योद्धारानन्तरं भवति । सप्तमे तु शल्योद्धारानन्तरं यावच्छल्येन मांसादि दूषितं तावत् छिद्यते, गोनसभक्षितादौ पादवल्मीके वा पूर्वोक्त क्रियाभिरनुपशमाद् विसर्पति अङ्गच्छेदः सहास्थ्ना शेषरक्षार्थ विधीयते च । एवं ॥८८३॥ म १ उत्तिष्ठेद निषीदेद्वा भिक्षां हिण्डेत् मात्रकं प्रेक्षेत। कुपितप्रियबान्धवस्येव करोति इतरोऽपि तूष्णीकः ॥ तुसीणीओ-शां.। तुसणीओ-खं.॥ ३ 'हितमितभोजी अभोजनो वा' इति भावः॥ ४ शेषरक्षणार्थ विधीयते। एवं-मु.॥ For Private & Personal use only Jain Education Inter 2 ww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy