SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ चतुर्थः स्वोप वृत्तिविभूषितं योगशास्त्रम् प्रकाशः श्लोकः ९० ॥८८२ ॥ ॥८८२॥ HEMETREMEMARRIERRIERMERICHEHEREIGICHRISHBHISHESH पञ्चक-देशक-पञ्चदशकक्रमेण प्रायश्चित्तानि गुरु-लघ्वपराधानुरूपाणि विज्ञाय यो योऽपराधो गुरुस्तं तं प्रथममालोचयति, पश्चाल्लघु लघुतरं च। अतीचाराभिमुख्यपरिहारेण प्रतीपंक्रमणमपसरणं प्रतिक्रमणं मिथ्यादुष्कृतसंप्रयुक्तेन पश्चात्तापेन 'पुनरेवं न करिष्यामि' इति प्रत्याख्यानम् । मिश्रमालोचन-प्रतिक्रमणरूपम्, प्रागालोचनं पश्चाद् गुरुसन्दिष्टेन प्रतिक्रमणम् । विवेकः संसक्तान-पानो-पकरण-शय्यादिविषयस्त्यागः। व्युत्सर्गोऽनेषणीयादिषु त्यक्तेषु गमनागमन-सावद्य-स्वप्नदर्शन-नौसन्तरणोच्चार-प्रस्रवणेषु च विशिष्टः प्रणिधानपूर्वकः कायवाङ्मनोव्यापारत्यागः। तपस्तु च्छेदग्रन्थानुसारेण जीतकल्पानुसारेण वा येन केनचित् तपसा पिशुद्धिर्भवति तत् तद् देयमासेवनीयं च । छेदस्तपसा दुर्दमस्याहोरात्रपञ्चकादिना क्रमेण श्रमणपर्यायच्छेदनम् । मूलं महाव्रतानां मूलत आरोपणम् । तथा अवस्थाप्यत इत्यवस्थाप्यः, तनिषेधादनवस्थाप्यः, तस्य भावोऽनवस्थाप्यता दुष्टतरपरिणामस्याऽकृततपोविशेषस्य बतानामनारोपणम् , तपःकर्म चास्योत्थान-निषदनादिकर्मकरणाशक्तिपर्यन्तम् । स हि यदोत्थानाद्यपि कर्तुमशक्तस्तदाऽन्यान प्रार्थयते--'आयाः! उत्थातुमिच्छामि' इत्यादि। ते तु तेन सह संभाषणमकुर्वाणास्तत्कृत्यं कुर्वन्ति, यदाह १ दशकक्रमेण-शां. संपू.॥ २ विशिष्टप्रणि-मु.॥ निर्जराभावनायामाभ्यन्तरतपास्वरूपम् Jain Education Intel For Private & Personal Use Only 70w.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy