________________
८८१ ॥
SHEEHRISESERECENERGRICHEECHEHEHEHREHENSHOT
व्रतातिक्रमं चेतति सञ्जानीते चेतंश्च न पुनराचरतीत्यतः प्रायश्चित्तम्। अथवा प्रायोऽपराध उच्यते, स येन चेतति विशुध्यति तत् प्रायश्चित्तम् । भीमसेनात् पूर्वे आचार्याः ‘चित'धातुं विशुद्धावपि पठन्ति, यदाहुः--
"चिंती संज्ञान-विशुद्धयोः" [तत्त्वार्थभाष्ये ९।२२ ] । प्रायश्चित्तं च दशविधम्-आलोचनम् , प्रतिक्रमणम् , मिश्रम् , विवेकः, व्युत्सर्गः, तपः, छेदः, मूलम् , अनवस्थाप्यता, पाराश्चिकमिति ।
तत्रालोचनं गुरोः पुरतः स्वापराधस्य प्रकटनम् । तच्चासेवनानुलोम्येन प्रायश्चित्तानुलोम्येन च। आसेवनानुलोम्यं येन क्रमेणातिचार आसेवितस्तेनैव क्रमेण गुरोः पुरतः प्रकटनम् । प्रायश्चित्तानुलोम्यं च गीतार्थस्य शिष्यस्य भवति । स हि |
१ चेतश्च-मु.॥ २ “चितै संज्ञाने"-धा. पा. २७८ । ३ तुला-"चिती संज्ञाने"-पा. धा. ३९॥ ४ “चिती संज्ञानविशुद्धयोः धातुः। तस्य चित्तमिति भवति निष्ठान्तमौणादिकं च। एवमेभिरालोचनादिभिः कृच्,स्तपोविशेषैनिताप्रमादः तं के व्यतिक्रमं प्रायश्चेतयति, चेतयंश्च न पुनराचरतीति अतः प्रायश्चित्तम्। अपराधो वा प्रायस्तेन विशुध्यत इति अतश्च प्रायश्चिकत्तमिति" इति तत्त्वार्थभाष्ये ९।२२। “चिती संज्ञान-विशुद्धयोर्धातुरित्यादि। भीमसेनात् परतोऽन्यैर्वैयाकरणैरर्थद्वये पठितो
धातुः संज्ञाने विशुद्धौ च। इह विशुद्धयर्थस्य सह संज्ञानेन ग्रहणम्। .................अतश्च अस्माञ्च हेतोः प्रायश्चित्तमिति" इति के सिद्धसेनगणिविरचितायां तत्वार्थभाष्यटीकायाम् पृ० २५४॥ ५ प्रायश्चित्तादेः पड्विधस्य आभ्यन्तरतपसः किञ्चित् समान स्वरूप तत्त्वार्थभाष्ये [९।२९] सिद्धसेनगणिविरचितायां तवृत्तौ [पृ० २२०-२६०] च विलोकनीयम् ॥
For Private & Personal use only
॥८८१ ॥
Jain Education in
nal
| www.jainelibrary.org