________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
॥ ८८० ॥
Jain Education Inter
तथा तनुः कायः तस्य क्लेशः शास्त्राविरोधेन बाधनं तनुक्लेशः । ननु तनोरचेतनत्वात् कथं क्लेशसम्भवः ? उच्यते| शरीर- शरीरिणोः क्षीर- नीरन्यायेनाभेदादात्मक्लेशे तनुक्लेशस्यापि सम्भवात् तनुक्लेश इत्युक्तम् । स च विशिष्टास न करणेना| प्रतिकर्मशरीरत्व- केशोल्लुश्चनादिना चावसेयः । ननु परषहेभ्यः कोऽस्य विशेषः ? उच्यते - स्वकृतक्लेशानुभवरूपस्तनुक्लेशः, परीषहास्तु स्वपरकृतक्लेशरूपा इति विशेषः ।
तथा लीनता विविक्तशय्यासनता । सा चैकान्तेऽनावाधेऽसंसक्ते स्त्री-पशु-पण्डकविवर्जिते शून्यागार - देवकुल-सभा| पर्वत- गुहादीनामन्यतमस्मिन् स्थानेऽवस्थानं मनो- वाक्- काय - कषायेन्द्रियसंवृतता च ।
इति षट्द्मकारं बहिस्तपो बाह्यं तपः । वाह्यत्वं च बाह्यद्रव्यापेक्षत्वात्, परप्रत्यक्षत्वात्, कुतीर्थिकैर्गृहस्थैश्च कार्य्यत्वाच्च । अस्मात् षड्विधादपि बाह्यात् तपसः सङ्गत्याग - शरीरलाघवे-न्द्रियविजय-संयमरक्षण-कर्मनिर्जरा भवन्ति ॥ ८९ ॥
आभ्यन्तरं तप आह-
प्रायश्चित्तं वैयापृत्यं स्वाध्यायो विनयोऽपि च ।
व्युत्सर्गोऽथ शुभं ध्यानं षोढेत्याभ्यन्तरं तपः ॥ ९० ॥
मूलोत्तरगुणेषु स्वल्पोऽप्यतीचारश्चित्तं मलिनयतीति तच्छुद्ध्यर्थं प्रायश्चित्तम्, प्रकर्षेण अयते गच्छत्यस्मादाचारधर्म इति प्रायो मुनिलोकस्तेन चिन्त्यते स्मर्य्यतेऽतिचारविशुद्धयर्थमिति निरुक्तात् प्रायश्चित्तमनुष्ठानविशेषः । अथवा प्रायो बाहुल्येन १ दृश्यतां तत्त्वार्थसूत्रे [ ९/१९ ] तद्भाष्ये सिद्धसेनगणिविरचितायां तद्वृत्तौ च ॥ २ वैयावृत्यं शां. हे । वैयावृत्त्यं-मु.॥ ३ विचिन्त्यते - मु. ॥
For Private & Personal Use Only
चतुर्थः
प्रकाशः
श्लोकः ९०
॥ ८८० ॥
5
निर्जरा
भावनायां
बाह्यतपः
स्वरूपम्
10
www.jainelibrary.org