SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ ॥ ८७९ ॥ Jain Education Inte OBEDAAR अधौंनोदर्य्यम् । प्रमाणप्राप्ताहारो द्वात्रिंशत् कवलाः *से चैकादिकवलैरून चतुर्विंशतिक वलान् यावत् प्रमाणप्राप्तात् किञ्चिदूनौनोदर्य्यम् । चतुर्विधेऽप्यस्मिन्नेकैककवलहानेन बहूनि स्थानानि जायन्ते । सर्वाणि चामृन्यौनादर्य्यविशेषाः । योषितस्तु अष्टाविंशतिः कवला आहारप्रमाणम्, यदाह :I " बत्तीसं खलु कवला आहारो कुच्छिपूरओ भणिओ । पुरिसस महिलिया अट्ठावीसं भवे कवला ॥ १ ॥ " [ पिण्डनिर्युक्तौ गा० ६४२ ] तस्याः पुरुषानुसारेण न्यूनाहारादिकं भावनीयम् । तथा वर्ततेऽनयेति वृत्तिर्भैक्षम्, तस्याः संक्षेपणं ह्रासः । तच्च दत्तिपरिमाण करणरूपम् एक-द्वि- त्र्याद्यगारनियमो रथ्याग्रामार्ध - ग्रामनियमश्च । अत्रैव द्रव्य-क्षेत्र - काल- भावाभिग्रहा अन्तर्भूताः । तथा रसानां मतुलोपाद् विशिष्टरसवतां वृष्याणां विकारहेतुनाम् अत एव विकृतिशब्दवाच्यानां मद्य-मांस-मधु-नवनीतानां दुग्ध-दधि घृत-तैल-गुडाऽवगाह्यादीनां च त्यागो वर्जनं रसत्यागः । १ प्रमाणप्राप्त आहारो-मुः ॥ २ ** एतदर्न्तगतपाठस्थाने हे मध्ये ईदृशः पाठ उपलभ्यते ' स च चतुर्विंशतिकवलैश्चतुर्भागोनत्वात् प्राप्त इव प्राप्तः स चासावौनोंदर्य च प्राप्तौनोदर्यम् । किञ्चदूनौनोदर्यमेकत्रिंशत् कवलाः, यदागमः- “अप्पाहार अवढे दुगपत्ता तहेव किंचूणा । अट्ठ दुवालस सोलस चडवीस तहिक्कतीसा य ॥ " [ इति । पञ्चविधेऽप्यस्मिन्नेकैककवलहानेन बहूनि स्थानानि जायन्ते ' - हे. ॥ ३ ० विंशतिकव० - है, विना ॥ ४ द्वात्रिंशत् खलु कवला आहारः कुक्षिपूरको मणितः । पुरुषस्य महिलाया अष्टाविंशतिर्भवेयुः कवलाः ॥ For Private & Personal Use Only 10 ॥ ८७९ ॥ www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy