________________
1८७७॥
NEETECHHETRIGHEHREECHESHCHRICHEHREERICHETE
तच्च निर्जराहेतुः, यदाह
" यद् विशोषणादुपचितोऽपि यत्नेन जीर्यते दोषः।
तद्वत् कर्मोपचितं निर्जरयति संवृतस्तपसा ॥१॥" [प्रशमरतौ १५९] ॥ ८८ ॥ तच्च बाह्याभ्यन्तरंभेदेन द्विविधम् । तत्र बाह्यं तपस्तावद् भेदेनाह--
अनशनमौनोदर्य वृत्तेः संक्षेपणं तथा ।
रसत्यागस्तनुक्लेशो लीनतति बहिस्तपः ॥ ८९ ॥ अशनमाहारः, तत्परित्यागोऽनशनम् । तद् द्विधा-इत्वरं यावज्जीविकं च । इत्वरं नमस्कारसहितादि श्रीमन्महावीरतीर्थे पण्मासपर्यन्तम् , श्रीनाभेयतीर्थे तु संवत्सरपर्यन्तम् , मध्यमतीर्थकरतीर्थेषु त्वष्टौ मासान् यावत् । यावज्जीविकं तु पादपोपगमनेङ्गिनीभक्तप्रत्याख्यानभेदात् त्रिविधम् । । तत्र पादपोपगमनं द्विधा-सव्याघातमव्याघातं च । तत्र सतोऽप्यायुषः समुपजातव्याधिविधुरेणोत्पन्नमहावेदनेन वा देहिना यदुत्क्रान्तिः क्रियते तत् सव्याघातम् । निर्व्याघातं तु
"निप्फाइआ य सीसा गच्छो परिपालिओ महाभागो।
अब्भुज्जओ विहारो अहवा अब्भुज्जयं मरणं ॥ १॥ [ १०रयोगेन-खं. ॥२ निष्पादिताश्च शिष्या गच्छः परिपालितो महाभागः। अभ्युद्यतो विहारः अथवा अभ्युद्यतं मरणम् ॥
Jain Education in
2nal
For Private & Personal Use Only
|www.jainelibrary.org