________________
स्वोपज्ञ
वृत्ति
विभूषितं
योगशास्त्रम्
॥ ८७६ ॥
Jain Education Inter
| इत्येषामकामा निर्जरा । ननु सकामत्वा-कामत्वरूपेण निर्जराया द्वैविध्यं कुत्र दृष्टम् ? इति प्रश्ने स्पष्टं दृष्टान्तमाह — कर्मणामसद्यादीनां फलवत् फलानामिव यद् यस्मात् पाक उपायाद् निवातप्रदेश-पलालाच्छादनादिरूपात् स्वतोऽपि वा वृक्षस्थानामेव । तदेवं फलानां पाकस्य स्वत उपायतश्च द्वैविध्यं दृश्यते तद्वत् कर्मणामपि इत्युक्तम् - - सकामा कामवर्जिता च निर्जरा इति । ननु फलपाकस्य द्वैविध्ये कर्मणां पाकस्य किमायातम् ? नैवम्, पाकस्य निर्जरारूपत्वात् । ततो यथा फलपाको द्वेधा | भवति तथा कर्मनिर्जरापि ॥ ८७ ॥
अथ सकामनिर्जराया हेतुं स्पेष्टं दृष्टान्तेनाह
सदोषमपि दीप्तेन सुवर्ण वह्निना यथा ।
तपोनिना तप्यमानस्तथा जीवो विशुध्यति ॥ ८८ ॥
सदोषमपि किट्टिकादिदोषयुक्तमपि सुवर्ण दीप्तेन वह्निना तप्यमानं यथा विशुध्यति तथा जीवोऽप्यसद्वेधादिकर्म| दोषयुक्तस्तपोऽग्निना तप्यमानो विशुध्यति । तपस्तु तप्यन्ते रसादिधातवः कर्माणि चानेनेत्यन्वयात्, यदाह-
" रस- रुधिर-मांस - मेदोsस्थि-मज्ज- शुक्राण्यनेन तप्यन्ते । कर्माणि चाशुभानीत्यतस्तपो नाम नैरुक्तम् ॥ १ ॥ ' [
१ स्पष्टदृष्टान्तेनाह-मु. ॥
For Private & Personal Use Only
]
चतुर्थः
प्रकाशः
श्लोक ८८
॥ ८७६ ॥
5
निर्जरा
भावना
वर्णनम्
10
www.jainelibrary.org