________________
॥८७५॥
याए तवमहिद्विज्जा, नो कित्तिवण्णसद्दसिलोगट्टयाए तवमहिडिज्जा नण्णत्थ निज्जरट्ठयाए तवमहिद्विज्जा" [दशवकालिके ९।४] इत्येका निर्जरा। द्वितीया तु कामवर्जिता, कामेन पूर्वोक्तेन वर्जिता। अत्र चकारमन्तरेणापि समुच्चयो गम्यते इति | चकारो नोक्तः, यथा--
"अहरहनयमानो गामश्वं पुरुषं पशुम् ।
वैवस्वतो न तृप्यति सुराया इव दुर्मदी ॥ १॥" [पातञ्जलमहाभाष्ये २।२।२९] ॥८६॥ उभयीमपि निर्जरां व्याचष्टे
ज्ञेया सकामा यमिनामकामा त्वन्यदेहिनाम् ।
कर्मणां फलवत् पाको यदुपायात् स्वतोऽपि च ॥ ८७ ॥ सकामा निर्जराऽभिलाषवती यमिनां यतीनां विज्ञेया। ते हि कर्मक्षयार्थ तपस्तप्यन्ते । अकामा तु कर्मक्षयलक्षणफलनिरपेक्षा निर्जराऽन्यदेहिनां यतिव्यतिरिक्तानामेकेन्द्रियादीनां माणिनाम् ; तथाहि-एकेन्द्रियाः पृथिव्यादयो वनस्पतिपर्यन्ताः है। शीतोष्ण-वर्ष-जला-ऽग्नि-शस्त्राद्याभिघात-च्छेद-भेदादिनाऽसद्वेद्यं कर्मानुभूय नीरसं कर्म स्वदेशेभ्यः परिशाटयन्ति। विकलेन्द्रियाश्च क्षुत्-पिपासा-शीतोष्णादिभिः, पञ्चेन्द्रियतिर्यश्चश्च छेद-भेद-दाह-शस्त्रादिभिः, नारकाश्च त्रिविधया वेदनया, मनुष्याश्च । क्षुत्-पिपासा-व्याधि-दारिद्रयादिना, देवाश्च पराभियोग-किल्बिषकत्वादिनाऽसद्वेद्यं कर्मानुभूय स्वप्रदेशेभ्यः परिशाटयन्ति । है
१ स्वतोऽपि हि-मु.॥ २ वर्षा-मु.॥ ३०किल्बिषिक०-खं.॥
HRIENCERRHEEHEIRTEECHNICHEHEHRECENEHEYENEETS
॥८७५॥
Jain Education Inter
For Private & Personal Use Only
w.jainelibrary.org