________________
स्वोपज्ञ
चतुर्थः
वृत्ति
विभूषितं योगशास्त्रम्
प्रकाशः श्लोकः ८६ ॥ ८७४॥
॥८७४॥
निर्जरा
गुणस्थानेषु यो यः स्यात् संवरः स स उच्यते। मिथ्यात्वानुदयादुत्तरेषु मिथ्यात्वसंबरः ॥७॥ तथा देशविरत्यादौ स्यादविरतिसंवरः। अप्रमत्तसंयतादौ प्रमादसंवरो मतः ॥ ८॥ प्रशान्तक्षीणमोहादी भवेत् कषायसंवरः। अयोग्याख्यकेवलिनि सम्पूर्णो योगसंवरः॥९॥
एवमाश्रवनिरोधकारण, संवरः प्रकटितः प्रपञ्चतः । भावनागणशिरोमणिस्त्वयं, भावनीय इह भव्यजन्तुभिः ॥ १०॥
॥ संवरभावना ॥८॥८५॥ अथ निर्जराभावनामाह--
संसारबीजभूतानां कर्मणां जरणादिह ।
निर्जरा सा स्मृता द्वेधा सकामा कामवर्जिता ॥ ८६ ॥ जन्तूनां चतुर्गतिभ्रमणरूपस्य संसारस्य बीजभूतानां कारणभूतानां कर्मणां जरणादात्मप्रदेशेभ्योऽनुभूतरसकर्मपुद्गलपरिशटनादिह प्रवचने निर्जरोच्यते । सा निर्जरा द्वेधा-सह कामेन 'निर्जरा मे भूयात् ' इत्यभिलाषेण युक्ता सकामा, न पुनरिहलोक-परलोकफलादिकामेन युक्ता, तस्य प्रतिषिद्धत्वात् , यदाहुः-"-नो इहलोगट्ठयाए तवमहिद्विज्जा, नो परलोग
१ अयोगाख्य०-हे. मु.॥
RIBICHCHHHHHHHHHHHHHHHHHHHHHHHHHHHHHHE
भावनावर्णनम्
Jain Education Intem
For Private & Personal Use Only
vw.jainelibrary.org