SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ ॥८७३॥ इदानीं मिथ्यात्वा-ऽऽर्त-रौद्रध्यानानां प्रतिपक्षानाह सदर्शनेन मिथ्यात्वं शुभस्थैर्येण चेतसः । विजयेताऽऽर्तरौद्रे च संवरार्थं कृतोद्यमः ॥ ८५॥ सद्दर्शनेन सम्यग्दर्शनेन मिथ्यात्वं मिथ्यादर्शनं विजयेत, शुभं धर्म-शुक्लध्यानरूपं यच्चेतसः स्थैर्य तेनाऽऽर्त-रौद्रध्याने विजयेत, संवरार्थ संवरनिमित्तं कृतोद्यमः प्रयत्नवान् योगी। BMatkaHEREISHEIRGHAKHISHEHHRISHMIREMEHREHEHERE अत्रान्तरश्लोकाः-- यथा चतुष्पथस्थस्य बहुद्वारस्य वेश्मनः। अनावृतेषु द्वारेषु रजः प्रविशति ध्रुवम् ।। १ ॥ प्रविष्टं स्नेहयोगाच्च तन्मयत्वेन बध्यते । न विशेन च बध्येत द्वारेषु स्थगितेषु तु ॥२॥ यथा वा सरसि क्वापि सईद्वारैर्विशेज्जलम् । तेषु तु प्रतिरुद्धेषु प्रविशेद् न मनागपि ॥३॥ यथा वा यानपात्रस्य मध्ये रन्धैर्विशेज्जलम् । कृते रन्ध्रपिधाने तु न स्तोकमपि तद् विशेत् ॥ ४॥ योगादिष्वास्रवद्वारेष्वेवं रुद्वेषु सर्वतः । कर्मद्रव्यप्रवेशो न जीवे संवरशालिनि ॥५॥ संवरादास्रवद्वारनिरोधः संवरः पुनः। क्षान्त्यादिभेदाद् बहुधा तथैव प्रतिपादितः ॥ ६॥ १ यथा च-खं.॥ HETCHEHEHREERREVERENEURRENEVEREARREENERRHEARLERICH ॥८७३॥ Jain Education Intern For Private & Personal Use Only w.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy