SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ स्वोपक्षवृत्तिविभूषितं योगशास्त्रम् चतुर्थः प्रकाशः श्लोको ८३-८४ ॥८७२॥ ॥८७२॥ RORESCENCERNETEHRIRRRRRRRRRREEN कपायाणां प्रतिपक्षतः क्षयमुक्त्वा विषयाणामाह असंयमकृतोत्सेकान विषयान् विषसंनिभान् । निराकुर्यादखण्डेन संयमेन महामतिः ॥ ८३ ॥ असंयमेनेन्द्रियोन्मादेन कृत उत्सेकः स्वकार्यजननं प्रति सामर्थ्य येषां तान् विषयान् स्पर्शादीन् , किंविशिष्टान् ? विषसन्निभान्, आपातरम्यत्वेन परिणामदारुणत्वेन च विषतुल्यान् , निराकुर्याद् निवारयेत् । केन ? संयमेनेन्द्रियजयेन। किविशिष्टेन ? अखण्डेनाऽप्रतिहतेन ॥ ८३ ॥ इदानीं योग-प्रमादा-विरतीनां प्रतिपक्षानाह तिसृभिर्गुप्तिभियोगान प्रमादं चाप्रमादतः। सावद्ययोगहानेनाऽविरतिं चापि साधयेत् ॥ ८४ ॥ गुप्तिभिर्मनो-चाक्-कायरक्षणलक्षणाभिः, तिसृभिरिति तासां संख्यावचनम् , योगान् मनो-वाक्-कायव्यापारलक्षणान् , प्रमादं मद्य-विषय-कषाय-निद्रा-विकथालक्षणं पञ्चविधम् , अज्ञान-संशय-विपर्यय-राग-द्वेष-स्मृतिभ्रंश-धर्मानादर-योगदप्रणिधानरूपतयाऽष्टविधं वाऽप्रमादेन तत्प्रतिपक्षभूतेन साधयेव; सावद्या ये योगा व्यापारास्तेषां हानेन त्यागेनाऽविरतिमनियमं साधयेत् जयेत् ।। ८४ ॥ BHEHRECEICHERCHEHRTCHEICHESISEISHEHEIGHBHISHEKSHEHE संवर भावना वर्णनम् Jain Education Intel For.Private &Personal use only www.jainelibrary.org कि
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy