SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ ॥८६९॥ वेश्यादीनामलङ्कारदानं दावाग्निदीपनम् । देवादिव्याजाद् गन्धादिचौर्य तीव्रकषायता ॥ ३८ ॥ चैत्य-प्रतिश्रया-ऽऽराम-प्रतिमानां विनाशनम् । अङ्गारादिक्रिया चेत्यशुभस्य नाम्न आस्रवाः ॥ ३९ ॥ एते एवान्यथारूपास्तथा संसारभीरता। प्रमादहानं सद्भावार्पणं क्षान्त्यादयोऽपि च ॥ ४० ॥ दर्शने धार्मिकाणां च संभ्रमः स्वागतक्रिया। आस्रवाः शुभनाम्नोऽथ तीर्थकन्नाम्न आस्रवाः ॥ ४१ ॥ भक्तिरर्हत्सु सिद्धेषु गुरुषु स्थविरेषु च । बहुश्रुतेषु गच्छे च श्रुतज्ञाने तपस्विषु ॥ ४२ ॥ आवश्यके व्रतशीलेष्वप्रमादो विनीतता। ज्ञानाभ्यासस्तपस्त्यागौ मुहुर्ष्यानं प्रभावना ॥४३॥ संधे समाधिजननं वैयापृत्यं च साधुषु । अपूर्वज्ञानग्रहणं विशुद्धिर्दर्शनस्य च ॥ ४४ ॥ आद्यन्ततीर्थनाथाभ्यामेते विंशतिराश्रवाः। एको द्वौ वा त्रयः सर्वे वाऽन्यः स्पृष्टा जिनेश्वरैः॥ ४५ ॥ परस्य निन्दा-ऽवज्ञोपहासाः सद्गुणलोपनम् । सदसद्दोषकथनमात्मनस्तु प्रशंसनम् ॥ ४६ ॥ सदसद्गणशंसा च सदोषाच्छादनं तथा । जात्यादिभिर्मदश्चेति नीचे!त्रास्रवा अमी ॥ ४७ ॥ नीचे!त्रास्रवविपर्यासो विगतगर्वता। वाक्-काय-चित्तैर्विनय उच्चैर्गोत्रास्रवा अमी ॥ ४८ ॥ दाने लाभे च वीर्ये च तथा भोगोपभोगयोः। सव्याजा-ऽव्याजविघ्नोऽन्तरायकर्मण आस्रवाः ॥ ४९ ॥ १ वैयावृत्यं-हे.॥ ETRIEVEMEMEREMEHEIREMEMEHEREMEEREMEMEHEMEHEHEROERENCH ॥८६ Jain Education Intem For Private & Personal Use Only ww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy