________________
स्वोपच
वृत्तिविभूषितं योगशास्त्रम्
चतुर्थः प्रकाशः श्लोकः ७८ ॥८६८ ॥
॥८६८॥
BHBEHCHCHECHHETRIEVEHICHCHHETRIEVEMEHEHREEHEHEHER
उन्मार्गदेशना मार्गप्रणाशो गूढचित्तता। आर्तध्यानं सशल्यत्वं मायाऽऽरम्भ-परिग्रहौ ॥ २५ ॥ शीलवते सातिचारे नील-कापोतलेश्यता। अप्रत्याख्यानाः कषायास्तिर्यगायुष आस्रवाः ॥ २६ ॥ अल्पौ परिग्रहा-ऽऽरम्भौ सहजे मार्दवा-ऽऽर्जवे । कापोत-पीतलेश्यत्वं धर्मध्यानानुरागिता ॥ २७ ॥ प्रत्याख्यानकषायत्वं परिणामश्च मध्यमः। संविभागविधायित्वं देवता-गुरुपूजनम् ॥ २८॥ पूर्वालाप-प्रियालापौ सुखप्रज्ञापनीयता। लोकयात्रासु माध्यस्थ्यं मानुषायुष आस्रवाः ॥ २९ ॥ सरागसंयमो देशसंयमोऽकामनिर्जरा। कल्याणमित्रसम्पर्को धर्मश्रवणशीलता ॥ ३० ॥ पात्रे दानं तपःश्रद्धा रत्नत्रयाविराधना। मृत्युकाले परिणामो लेश्ययोः पद्म-पीतयोः ॥ ३१ ॥ चालं तपोऽग्नि-तोयादिसाधनोल्लम्बनानि च। अव्यक्तसामायिकता देवस्यायुष आस्रवाः ॥ ३२ ॥ मनोवाककायवक्रत्वं परेषां विप्रतारणम् । मायाप्रयोगो मिथ्यात्वं पैशुन्यं चलचित्तता ॥३३॥ सुवर्णादिप्रतिच्छन्दकरणं कूटसाक्षिता। वर्ण-गन्ध-रस-स्पर्शाद्यन्यथापादनानि च ॥ ३४॥ अङ्गोपाङ्गच्यावनानि यन्त्रपञ्जरकर्म च । कूटमानतुलाकर्माऽन्यनिन्दाऽऽत्मप्रशंसनम् ॥ ३५ ॥ हिंसा-ऽनृत-स्तेया-ऽब्रह्म-महारम्भ-परिग्रहाः। परुषासभ्यवचनं शुचिवेषादिना मदः॥ ३६॥ मौखर्या-ऽऽक्रोशौ सौभाग्योपघातः कार्मणक्रिया। परकौतूहलोत्पादः परहास-विडम्बने ॥ ३७॥ १ मूढ-मु.॥ २ रत्नत्रय्या विरा-मु.॥ ३ बालतपो-मु.॥
NCHCHEHEACHERSHSHEHEHCHEHCHESHSHCHCHEHEHCHRISHCHHeal
| आस्वभावनावर्णनम्
For Private & Personal Use Only
Javrww.jainelibrary.org
Jain Education Inte