________________
स्वोपक्ष
वृत्तिविभूषितं योगशास्त्रम्
चतुर्थः प्रकाशः श्लोको ७९-८० ॥८७०॥
॥ ८७०॥
संवर
प्रस्तावतः खलु शुभास्रव एष उक्तो
वैराग्यकारणमसौ न तु देहभाजाम् । ज्ञात्वा तदेवमशुभास्रव एव भाव्यो भव्यैर्जनैः सपदि निर्ममतानिमित्तम् ॥५०॥
॥ आस्रवभावना ॥ ७ ॥ ७८ ॥ अथ संवरभावनामाह
सर्वेषामाश्रयाणां तु निरोधः संवरः स्मृतः।
स पुनर्भिद्यते द्वेधा द्रव्य-भावविभेदतः ॥ ७९ ॥ सर्वेषां पूर्वोक्तानामाश्रवाणां निरुध्यन्तेऽनेनेति निरोधः संवरः स्मृतः, संवियतेऽनेनेति कृत्वा। स चायोगिकेवलिजीनामेव । इदं च सर्वसंवरस्य स्वरूपम् । एक-द्वि-त्र्याद्यास्रवनिरोधस्तु सामर्थ्याद् देशसंवरः। स चायोगिकेवलिनः प्राग्गुण स्थानकेषु । सर्वसंवरो देशसंवरश्च प्रत्येकं द्रव्य-भावभेदेन द्विविधः ॥ ७९ ॥ द्वैविध्यमेवाह
यः कर्मपुद्गलादानच्छेदः स द्रव्यसंवरः ।
भवहेतुक्रियात्यागः स पुनर्भावसंवरः ॥ ८॥ १ संवर उक्तः-शां. विना ॥
SHBHEHETRIEURICHEIGHERISTRICKETCHERCHOICIRCEIGHSSCREEK
भावना
वर्णनम
Jain Education Int
For Private & Personal Use Only
www.jainelibrary.org