________________
॥। ८६५ ।।
Jain Education
शुभयोगानां शुभफलहेतुत्वं प्रसङ्गादुक्तम् । भावनाप्रकरणे त्वशुभयोगानामशुभफलहेतुत्वं वैराग्योत्पादनाय प्रतिपादनीयम्, इत्युक्तानुक्तान शुभहेतून संगृह्णाति --
कषाया विषया योगाः प्रमादा- विरती तथा । मिथ्यात्वमार्त- रौद्रे चेत्यशुभं प्रति हेतवः ॥ ७८ ॥
कषायाः क्रोध-मान- माया -लोभलक्षणाः, नोकषायाश्च कषायसहचरिता हास्य- रत्यरति-भय-शोक- जुगुप्सा-पुं-स्त्रीनपुंसक वेदलक्षणा नव कैपायशब्देन गृह्यन्ते, विषयाः काम्यमानाः स्पर्शादयः, योगा मनोवाक्कायकर्मलक्षणाः, प्रमादोऽज्ञान-संशय-विपर्यय-राग-द्वेष-स्मृतिभ्रंश-धर्मानादर-योगदुष्प्रणिधानभेदैरष्टधा, अविरतिर्नियमाभावः, मिध्यात्वं मिथ्यादर्शनम्, आर्त-रौद्रे च ध्यानभेदायुक्तपूर्वी, इत्येतेऽशुभं कर्म प्रति हेतवः ।
aaleideodeedeeodeocoodaedeode
नन्वेते बन्धं प्रति हेतुत्वेनोक्ताः, यद् वाचकमुख्यः -- “ मिथ्यादर्शना - ऽविरति - प्रमाद - कषाय-योगा बन्धहेतवः " [ तत्वार्थ० ८1१] इति, तत् किमास्रवभावनायां बन्धहेतुनामेतेषामभिधानम् ? सत्यम्, आस्रवभावनेव बन्धभावनापि न | महर्षिभिर्भावनात्वेनोक्ता, आस्रवभावनयैव गतार्थत्वात् । आस्रवेण ह्युपात्ताः कर्मपुद्गला आत्मना सम्बध्यमाना बन्ध इत्यभिधीयते, यदाह -- “ सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्ते स बन्धः " [ तत्त्वार्थ० ८|२| ३ ] इति । ततश्च बन्धाऽऽस्रवयोर्भेदो न विवक्षितः । ननु कर्मपुद्गलैः सह क्षीरनीरन्यायेनात्मनः सम्बन्धो बन्ध उच्यते, तत् कथमास्रव एव
1
१ नोकषाय०- शां. ॥
For Private & Personal Use Only
5
10
॥ ८६५ ॥
www.jainelibrary.org