SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ तथा स्वोपज्ञ वृत्तिविभूषितं योगशास्त्रम् ॥८६४॥ चतुर्थः शुभार्जनाय निर्मिथ्यं श्रुतज्ञानाश्रितं वचः । प्रकाशः विपरीतं पुनर्जेयमशुभार्जनहेतवे ॥ ७६ ॥ श्लोको ७६-७७ निर्मिथ्यमवितथम् , तच्च जैनमेव वचनं भवतीत्याह--श्रुतज्ञानाश्रितं वचः, श्रुतज्ञानं द्वादशाङ्गं गणिपिटकम् , तदा ।। ८६४ ॥ श्रितं तदविरोधेन वर्तमानं वचो वाग्योगः स शुभस्य कर्मणोऽर्जनाय । तदेव वचो विपरीतं मिथ्या श्रुतज्ञानविरोधि चाशुभस्य कर्मणोऽर्जनाय ॥ ७६ ॥ आस्रवशरीरेण सुगुप्तेन शरीरी चिनुते शुभम् । भावना वर्णनम् सततारम्भिणा जन्तुघातकेनाशुभं पुनः ॥ ७७ ॥ शरीरेण कायेन मुगुप्तेनासच्चेष्टारहितेन कायोत्सर्गाद्यवस्थायां निश्चेष्टेन च शरीरी जन्तुश्चिनुते करोति शुभं सद्वद्यादि कर्म। सततारम्भिणा पुनमहारम्भेण अत एव जन्तुघातकेन प्राणिव्यापादकेनाशुभं कर्मासद्वेद्यादि चिनोति । इति शुभाशुभयोगमूलत्वेन शुभाशुभकर्मणां जन्मप्रतिपादनाद् न कार्यकारणभावविरोधः ॥ ७७ ॥ १ मिथ्याश्रुतज्ञानं विरोधि-संपू.॥ २ रम्भिणा-मु.॥ तथा-- Jain Education Interna For Private & Personal Use Only Sr.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy