SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ ॥ ८६३॥ BREMEHIHEREHEREHENSIREHERRIGHERCHCHHHHHHHHHHOTE ____एते च स्थविरस्य दुर्बलस्य वा आलम्बनयष्टयादिवज्जीवस्योपग्राहकाः। तत्र मननयोग्यपुद्गलात्मप्रदेशपरिणामो मनोयोगः, भाषायोग्यपुद्गलात्मप्रदेशपरिणामो वाग्योगः, कायात्मप्रदेशपरिणामो गमनादिक्रियाहेतुः काययोगः। एते योगाः, यद् यस्मात् शुभं सद्वद्यादि अशुभमसद्वद्यादि कास्रवन्ति प्रेसुवन्ति, तेन कारणेनारवा इति कीर्तिताः, आम्रयते कमैभिरि-1 त्याश्रवाः। एतेषां च करणभूतानामपि कर्तृत्वमिहोक्तं स्वातन्त्र्यविवक्षणात् , यथा असिन्छिनत्ति इति ॥७४॥ ___योगाः कर्म शुभाशुभमाश्रवन्ति' इत्युक्तम् , कार्याणां च कारणानुकारित्वं दृष्टम् , इति शुभानां शुभकर्महेतुत्वम् । अशुभानामशुभकर्महेतुत्वं च विवेकेन दर्शयति-- मैत्र्यादिवासितं चेतः कर्म सूते शुभात्मकम् । कषायविषयाक्रान्तं वितनोत्यशुभं पुनः ॥ ७५ ॥ 'मैत्री-मुदिता-करुणोपेक्षालक्षणाभिश्चतसृभिर्भावनाभिर्वासित भावितं चेतो मनः कर्तृ, शुभात्मकं कर्म सूते । तच्च सद्वेद्य-सम्यक्त्व-हास्य-रति-पुरुषवेद-शुभायु-र्नाम-गोत्रलक्षणम् । तदेव मनः, कषायाः क्रोधादयः, विषिण्वन्ति बध्नन्ति संसारिणं काम्यमानाः सन्तः इन्द्रियार्थाः स्पर्शादयो विषयाः, कषायाश्च विषयाश्च, तैराक्रान्तं वशीकृतं वितनोति करोत्यशुभमसद्वद्यादि कर्म ॥ ७५॥ १ काययोग्यपुद्गलात्मप्रदेश-मु.॥ २ प्रसुवन्ति-शां. हे.॥ प्रसुवते-संपू. मु.। "पुंक् प्रसवैश्वर्ययोः" धा० पा०२।२०। अस्य 'प्रसुवन्ति' इति रूपम्। “घुडोक् प्राणिगर्भविमोचने"-धा० पा०२।४९ । अस्य 'प्रसुवते' इति रूपम्। अत्र प्राणिगर्भविमोचनस्याभावात् 'प्रसुवन्ति' इति शां. हे. पाठ आहतोऽस्माभिः॥ EHCHERRIERRENERGREHHHHHHHHHHHHHHHHEME Jain Education in For Private Personal Use Only www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy