________________
स्वोपज्ञ
वृत्ति
विभूषितं योगशास्त्रम्
॥ ८६२ ॥
Jain Education Int
sealedeese
शरीरकस्यैवमशौचभावनां, मदाभिमानस्मरसाददायिनीम् ।
विभावयन् निर्ममतामहाभरं, वोढुं दृढः स्याद् बहुनोदितेन किम् १ ॥ १० ॥ अशौचभावना ।। ६ ।। ७३ ॥
अथाश्रवभावनामाह
मनोवाक्कायकर्माणि योगाः कर्म शुभाशुभम् । यदास्रवन्ति जन्तूनामात्रवास्तेन कीर्तिताः ॥ ७४ ॥
मनश्च वाक् च कायश्च मनोवाक्कायाः, तेषां कर्माणि व्यापारा योगशब्देनोच्यन्ते । तत्रात्मना शरीरवता सर्वप्रदेशै - गृहीता मनोयोग्याः पुद्गलाः शुभादिमननार्थं करणभावमालम्बन्ते, तत्सम्बन्धादात्मनः पराक्रमविशेषो मनोयोगः, स च पञ्चेन्द्रियाणां समनस्कानां भवति । तथा आत्मना शरीरवता वाग्योग्यं पुद्गला गृहीता विसृज्यमाना वाक्त्वेन करणतामापद्यन्ते, तेन वाकरणेन सम्बन्धादात्मनो भाषणशक्तिर्वाग्योगः । सा च द्वीन्द्रियादीनाम् । कायः शरीरमात्मनो निवासः, | तद्योगाज्जीवस्य वीर्यपरिणामः काययोगः । ते चामी त्रयोऽपि मनोवाक्काय सम्बन्धादग्निसम्बन्धादिष्टकादे रक्ततेवाऽऽत्मनो । वीर्यपरिणतिविशेषा योगा इत्युच्यन्ते, यदाह
“ योगो वीरिअं थामो उच्छाह परकमो तहा चेट्ठा | सत्ती सामत्थं चिय जोगस्स हवंति पज्जाया ॥ १ ॥ " २ योगो वीर्य स्थामोत्साहः पराक्रमस्तथा चेष्टा । शक्तिः सामर्थ्यमेव योगस्य भवन्ति पर्यायाः ॥
[ पञ्चसंग्रहे गा० ३९६ ]
For Private & Personal Use Only
१०ग्या पुद्गला - शां. ॥
चतुर्थः
प्रकाशः
श्लोकः ७४
॥। ८६२ ॥
5
आस्रव
भावना
वर्णनम्
10
www.jainelibrary.org