________________
॥ ८६१ ॥
alaale
Jain Education Internat
| रसस्तस्य निःस्यन्दो निर्यासस्तेन पिच्छिलो विजिविलो यः कायस्तस्मिन्नपि शौचसङ्कल्पः शुचित्वाभिमानो यः स महद् गुरुतरं मोहस्य विजृम्भितम् ।
Goo
अत्रान्तरश्लोकाः
शुक्रशोणितसम्भूतो मलनिः स्यन्दवर्धितः । गर्भे जरायुसंछन्नः शुचिः कायः कथं भवेत् १ ॥ १ ॥ मातृजग्धान्नपानोत्थरसं नाडीक्रमागतम् । पायं पायं विवृद्धः सन् शौचं मन्येत कस्तनोः १ ॥ २ ॥ दोषधातुमलाकीर्णे कृमिगण्डूपदास्पदम् । रोगभोगिगणैर्जग्धं शरीरं को वदेत् शुचि ॥ ३ ॥ सुखान्यन्नपानानि क्षीरेक्षुविकृती अपि । भुक्तानि यत्र विष्टायै तच्छरीरं कथं शुचि १ ॥ ४ ॥ विलेपनार्थमासक्तः सुगन्धिर्यक्षकर्दमः । मलीभवति यत्राशु क्व शौचं तत्र वर्ष्मणि ? ॥ ५ ॥ जग्ध्वा सुगन्धि ताम्बूलं सुप्तो निश्युत्थितः प्रगे । जुगुप्सते वक्त्रगन्धं यत्र तत् किं वपुः शुचि १ ।। ६ । स्वतः सुगैन्धयो गन्ध-धूप-पुष्पस्रगादयः । यत्सङ्गाद् यान्ति दौर्गन्ध्यं सोऽपि कायः शुचीयते ॥ ७ ॥ अभ्यक्तोऽपि विलिप्तोऽपि धौतोऽपि घटकोटिभिः । न याति शुचितां कायः शुण्डाघट इवाशुचिः ॥ ८ ॥ मृज्जलानलवातांशुस्नानैः शौचं वदन्ति ये । गतानुगतिकैस्तैस्तु विहितं तुषकण्डनम् ॥ ९॥
१ विजिलो-हे । “पिच्छिलं तु विजिबिलं विजिलं च तत् । ॥ ४१४ ॥ " इति अभिधानचिन्तामणौ ॥ २ कस्तनौ - मु. ॥ ३ सुगन्धिनो- शां. ॥
For Private & Personal Use Only
daaaaaa
10
॥ ८६१ ॥
jainelibrary.org