________________
स्वोपक्ष
वृत्तिविभूषितं पोगशास्त्रम्
चतुर्थः प्रकाशः श्लोको ७२-७३
॥ ८६०॥
KHMIRICISHISHEHEREHICHCHCHCHEHEHEREHEHENSI
अथाशुचित्वभावनामाह
रसा-ऽसृग्-मांस-मेदोऽस्थि मज्जा-शुक्रा-ऽन्त्र-वर्चसाम् ।
अशुचीनां पदं कायः शुचित्वं तस्य तत् कुतः ? ॥ ७२ ॥ रसो भुक्तपीतान्न-पानपरिणामजो निस्यन्दः, असृग् रक्तं रससम्भवो धातुः, मांसं पिशितमसृग्भवम् , मेदो वपा मांससम्भवम् , अस्थि कीकसं मेदःसम्भवम् , मज्जा सारोऽस्थिसम्भवः, शुक्रं रेतो मज्जसम्भवम् , अन्त्रं पुरीतत् , व! विष्टा, एतेषामशुचिद्रव्याणां पदं स्थानं कायः। तत् तस्मात् तस्य कायस्य कथं शुचित्वम् ? न कथश्चिदित्यर्थः ॥ ७२ ॥ ये त्वत्रापि शुचित्वमानिनस्तानुपालभते
नवस्रोतःस्रवद्विखरसनिःस्यन्दपिच्छिले ।
देहेऽपि शौचसङ्कल्पो महन्मोहविजृम्भितम् ॥ ७३ ॥ नवभ्यो नेत्र २-श्रोत्र २ नासा २-मुख-पायूपस्थेभ्यः स्रोतोभ्यो निर्गमद्वारेभ्यः स्रवन् क्षरन् विस्र आमगन्धिर्योऽसौ
१ "मजा तु कौशिकः ........... ॥ ६२८ ।। मजति अस्थनि मजा " उक्षि-तक्षि-" [उणादि० ९००] इत्यन् , नन्तः पुंसि अयम् । वाचस्पतिस्तु “अथ मजा द्वयोः" [ ] इति स्त्रियामप्याह" इति अमिधानचिन्तामणौ स्वोपज्ञवृत्तिसहिते ॥ र वसा-मु.॥ ३ "शुक्रं रेतो बलं बीजं वीर्य मज्जसमुद्भवम् ................ ॥ ६२९ ॥” इति अभिधानचिन्तामणौ ॥ का पिच्छले-शां.॥ ५ नाशा०-हे.॥
RECERENCRELEHREEEEEEEEEEEEEEECHEESE
अशुचित्वभावनावर्णनम्
Jain Education Inter
For Private & Personal Use Only
7
ww.jainelibrary.org