________________
॥ ८५८॥
॥८५८ ॥
म यत्रेति प्रक्रमार्थमव्ययम् । अन्यत्वं भेदः शरीरस्य कायस्य । कस्माद् भेदः? शरीरिण आत्मनः सकाशात् । कुतो हेतोः । स्वोप
चतुर्थः वृत्तिवैसदृश्यात् । प्रतीतमेव हि वैसदृश्यं शरीर-शरीरिणोर्मूर्तत्वा-ऽमूर्तत्वाभ्याम् , अचेतनत्व-चेतनत्वाभ्याम् , अनित्यत्व-नित्यत्वा |
प्रकाशः विभूषितं भ्याम् , भवान्तरेष्वगमन-गमनाभ्यां च। तोति प्रक्रमोपसंहारे, शरीरिणः सकाशादन्यत्वं न दुर्वचं न दुर्भणम् । केषाम् ?
श्लोकः ७१ योगशास्त्रम्
है धन-बन्धु-सहायानां धनानां धन-धान्यादिभेदैर्नवविधानाम् , बन्धूनां मातृ-पितृ-पुत्रादीनाम् , सहायानां सुहृत्-सेवकपत्यादीनाम् । अयमर्थः-यो जीवात् शरीरस्योपपत्त्या भेदं ग्राहितः स धनादिभ्यो भेदं ग्राहयितुं सुशक एवेति ॥ ७० ॥ न केवलमन्यत्वभावनाया निर्ममत्वमेव फलम् , किन्तु फलान्तरमप्यस्ति, तदेवाह
अन्यत्वयो देह-धन-बन्धुभ्यो भिन्नमात्मानमीक्षते।
भावनाक शोकशङ्कुना तस्य हन्तातङ्कः प्रतन्यते ॥ ७१॥
सवर्णनम् यः प्राणी देहाद् धनाद् बन्धुभ्यश्च भिन्नमन्यमात्मानं स्वमीक्षते विवेकालोकेन, तस्य भेदप्रेक्षितुः, क? नैवेत्यर्थः, शोकशङ्कना शोकशल्येन, हन्तेति हार्थमव्ययम् , आतङ्कः पीडा, प्रसन्यते क्रियते ।
अत्रान्तरश्लोकाःइहान्यत्वं भवेद् भेदः स वैलक्षण्यलक्षणः । आत्म-देहादिभावानां साक्षादेव प्रतीयते ॥ १॥ देहाद्या इन्द्रियग्राह्या आत्माऽनुभवगोचरः। तदेतेषामनन्यत्वं कथं नामोपपद्यते ॥२॥
HENDISHCHHEHEREHENSHOICICIREHSHRISHCHCHCHCHCHSHBHSHDVISH
Jain Education Intel
For Private & Personal Use Only
ww.jainelibrary.org