________________
H
॥८५७॥
SHCHEMEHEHEHEHCHCHEHEENCHEHEHCHEHEREHEHEHEREHEENCHE
धर्माधर्मो समासन्नौ सहायाविति चेद् मतिः। नैषा सत्या न मोक्षेऽस्ति धर्माधर्मसहायता ॥ ४ ॥ तस्मादेको बम्भ्रमीति भवे कुर्वन् शुभाशुभे। जन्तुर्वेदयते चैतदनुरूपे शुभाशुभे ॥ ५॥ एक एव समादत्ते मोक्षश्रियमनुत्तराम् । सर्वसम्बन्धिविरहाद् द्वितीयस्य न सम्भवः ॥६॥ यद् दुःखं भवसम्बन्धि यत् सुखं मोक्षसम्भवम् । एक एवोपभुड़े तद् न सहायोऽस्ति कश्चन ॥७॥ यथैवैकस्तरन् सिन्धुं पारं व्रजति तत्क्षणात् । न तु हृत्-पाणि-पादादिसंयोजितपरिग्रहः ॥ ८॥ तथैव धन-देहादिपरिग्रहपराङ्मुखः। स्वस्थ एको भवाम्भोधिपारमासादयत्यसौ ॥९॥
एकः पापात् पतति नरके याति पुण्यात् स्वरेकः,
पुण्यापुण्यपचयविगमाद मोक्षमेकः प्रयाति । एवं ज्ञात्वा चिरमवितथा निर्ममत्वस्य हेतोरेकत्वाख्यामवहितधियो भावनां भावयन्तु ॥१०॥
॥ एकत्वभावना ४ ॥ ६९॥ अथान्यत्वभावनामाह
यत्रान्यत्वं शरीरस्य वैसदृश्याच्छरीरिणः ।
धन-बन्धु-सहायानां तत्रान्यत्वं न दुर्वचम् ॥ ७०॥ १ भवाम्भोघेः पार०-मु.॥
OMHEMIEREHICHHEHCHCHEHRENCYCHEHCHEMEHENOMICHRONICE
॥८५७॥
Jain Education Internal
For Private & Personal Use Only
hinelibrary.org