________________
स्वोपज्ञ
वृत्ति
चतुर्थः प्रकाशः श्लोकः ६९ ॥ ८५६ ॥
विभूषितं पोगशास्त्रम्
भवान्तरे पूर्वजन्मनि प्रचितानि कृतानि अनुभवति वेदयते, भवान्तरग्रहणमुपलक्षणम् , इहजन्मकृतानामप्यनुभवात् , यदाहुभगवन्तः-" परलोअकडा कम्मा इहलोए वेइज्जति, इहलोअकडा कम्मा ईहलोए वेइज्जति" [ ] इत्यादि ॥६८॥ तथा
अन्यैस्तेनार्जितं वित्तं भूयः संभूय भुज्यते ।
स त्वेको नरककोडे क्लिश्यते निजकर्मभिः ॥ ६९ ॥ तेनैकेन जन्तुनाऽर्जितं महारम्भपरिग्रहादिनोपार्जित वित्तमन्यैः सम्बन्धि-बन्धु-भृत्यप्रभृतिभिः सम्भूय मिलित्वा भूय पुनः पुनर्भुज्यते वित्तस्य विनियोगः क्रियते । स तु वित्तस्यार्जयिता एको भोक्तृलोकविरहितो नरकक्रोडे नरकोत्सङ्गे क्लिश्यते वाध्यते निजकर्मभिर्धनार्जनकालप्रचितैः पापकर्मभिः ॥
अत्रान्तरश्लोकाःदुःखदावाग्निभीष्मेऽस्मिन् वितते भवकानने। बम्भ्रमीत्येक एवासौ जन्तुः कर्मवशीकृतः ॥ १॥ ननु जीवस्य मा भूवन् सहाया बान्धवादयः। शरीरं तु सहायोऽस्तु सुखदुःखानुभूतिदम् ॥२॥ नायाति पूर्वभवतो न याति च भवान्तरम् । ततः कायः सहायः स्यात् संफेटमिलितः कथम् ॥ ३ ॥ १ परलोककृतानि कर्माणि इहलोके वेद्यन्ते, इहलोककृतानि कर्माणि इहलोके वेद्यन्ते ॥ २ परलोए-खं.॥
RSNEHEHREMEMERGREHERPREMIERRENCHERRHETRACHCHEMISHCHEIK
एकत्व
भावना
स्वरूपम्
Jain Education Inte
For Private & Personal Use Only
www.jainelibrary.org