________________
स्वोपज्ञवृत्ति
विभूषितं योगशास्त्रम्
॥। ८५४ ॥
Jain Education I
Beeeeeee
विषयेष्वतिरज्यन्ते न्यायधर्मविबाधया । अपध्यान्यपि यत्नेन स्पृहयन्ति मुमूर्षवः ॥ ७६ ॥ नीरुजामपि भज्यन्ते सर्वाङ्गोपाङ्गसन्धयः । भावि दुर्गतिपातोत्थवेदनाविवशा इव ॥ ७७ ॥ पदार्थग्रहणेऽस्माद्भवन्त्यपटुदृष्टयः । परेषां सम्पदुत्कर्षमिव प्रेक्षितुमक्षमाः ॥ ७८ ॥ गर्भावासनिवासोत्थदुःखागमभयादिव । प्रकम्पतरलैरङ्गैर्भाययन्ति परानपि ॥ ७९ ॥ निश्चितच्यवनाश्विद्वैर्लभन्ते न रतिं क्वचित् । विमाने नन्दने वाप्यामङ्गारालिङ्गिता इव ॥ ८० ॥ हा ! प्रिया ! हा ! विमानानि ! हा वाप्यो ! हा ! सुरद्रुमाः ! । क द्रष्टव्याः पुनर्यू हतदैववियोजिताः १ ॥ ८१ ॥ अहो ! स्मितं सुधावृष्टिरहो ! बिम्बाधरः सुधा । अहो ! वाणी सुधावर्षिण्यहो ! कान्ता सुधामयी ॥ ८२ ॥ हा ! रत्नघटिताः स्तम्भाः ! हा ! श्रीमन्मणिकुट्टिम ! | हा ! वेदिका रत्नमय्यः ! कस्य यास्यथ संश्रयम् १ || ८३ ॥ ही ! रत्नसोपानचिताः कमलोत्पलमालिताः । भविष्यन्त्युपभोगाय कस्येमाः पूर्णवापयः १ ॥ ८४ ॥
! पारिजात ! मन्दार ! सन्तान ! हरिचन्दन ! कल्पद्रुम ! विमोक्तव्यः किं भवद्भिरयं जनः ? ॥ ८५ ॥
१ ०र्भापर्यान्ति संपू. हे । ०र्भापयन्ते मु. खं । ०र्भीषयन्ति शां. । “बिमेतेर्भीप् च । ३ । ३ । ९२ । प्रयोक्तः सकाशात् स्वार्थे । वर्तमानाण्ण्यन्ताद् विमेतेः कर्तर्यात्मनेपदं भवति, अस्य च भीषादेशः । पक्षेऽन्तस्य आकारश्च अकर्तर्यपि भवति । मुण्डो भीषयते । मुण्डो भापयते । प्रयोक्कुः स्वार्थ इत्येव, कुञ्चिकया भाययति" इति सिद्धहेमशब्दानुशासनवृहद्वत्तौ । यद्यपि संपू. हे. मध्ये 'भापयन्ति' इति पाठोऽत्र दृश्यते तथापि हस्तलिखितादर्शेषु 'प-य' - इत्यक्षरयोर्बहुषु स्थलेषु व्यत्यासदर्शनात् 'भाययन्ति' इति पाठोऽत्र समीचीनो भाति ।।
२ हा मु. ॥
For Private & Personal Use Only
चतुर्थः
प्रकाशः
लोकः ६७
॥ ८५४ ॥
5
भवभावना
स्वरूपम्
10
www.jainelibrary.org