________________
स्वोपश
वृि विभूषितं योगशास्त्रम्
॥ ८५२ ॥
Jain Education Inter
aaaaaaaa
aadaaeele
सूचीभिरग्निवर्णाभिर्भिन्नस्य प्रतिरोम यत् । दुःखं नरस्याष्टगुणं तद् भवेद् गर्भवासिनः || ४९ ॥ योनियन्त्राद् विनिष्क्रामन् यद् दुःखं लभते भवी । गर्भवासभवाद् दुःखात् तदनन्तगुणं खलु ॥ ५० ॥ बाल्ये मूत्र-पुरीषाभ्यां यौवने रतचेष्टितैः । वार्द्धके श्वास- कासाद्यैर्जनो जातु न लज्जते ॥ ५१ ॥ पुरीषसूकरः पूर्वं ततो मदन गर्दभः । जराजरद्भवः पश्चात् कदापि न पुमान् पुमान् ॥ ५२ ॥ स्याच्छैशवे मातृमुखस्तारुण्ये तरुणीमुखः । वृद्धभावे सुतमुखो मूर्खो नान्तर्मुखः क्वचित् ॥ ५३ ॥ सेवा - कर्षण-वाणिज्य-पाशुपाल्यादिकर्मभिः । क्षपयत्यफलं जन्म धनाशाविहलो जनः ॥ ५४ ॥ कचिच्चर्यं क्वचिद् द्यूतं क्वचिद् नीचैर्भुजङ्गता । मनुष्याणामहो ! भूयो भवभ्रमनिबन्धनम् ॥ ५५ ॥ सुखित्वे कामललितैर्दुःखित्वे दैन्यरोदनैः । नयन्ति जन्म मोहान्धा न पुनर्धर्मकर्मभिः ॥ ५६ ॥ अनन्तकर्मप्रचयक्षयक्षममिदं क्षणात् । मानुषत्वमपि प्राप्ताः पापाः पापानि कुर्वते ॥ ५७ ॥ ज्ञान- दर्शन - चारित्ररत्नत्रितयभाजने । मनुजत्वे पापकर्म स्वर्णभाण्डे सुरोपमम् ॥ ५८ ॥ संसारसागरगतैः शमिलायुगयोगवत् । लब्धं कथञ्चिद् मानुष्यं हा ! रत्नमिव हार्यते ॥ ५९ ॥ लब्धे मानुष्यके स्वर्ग- मोक्षप्राप्तिनिबन्धने । हा! नरकाप्त्युपायेषु कर्मसूत्तिष्टते जनः ॥ ६० ॥ आशास्यते यत् प्रयत्नादनुत्तरसुरैरपि । तत् सम्प्राप्तं मनुष्यत्वं पापैः पापेषु योज्यते ॥ परोक्षं नरके दुःखं प्रत्यक्षं नरजन्मनि । तत्प्रपञ्चः प्रपञ्चेन किमर्थमुपवर्ण्यते ॥ ६२ ॥
६१ ॥
१ सूचिभिरग्निवर्णा० - मु.। सूचीभिरक्तवर्णा० - संपू. ॥
For Private & Personal Use Only
चतुर्थः
प्रकाशः
श्लोकः ६७
॥ ८५२ ॥
5
भवभावना
स्वरूपम्
10
www.jainelibrary.org