________________
॥ ८५१ ।।
Jain Education Inte
3888888GE
उत्कील्यन्ते त्वचयद्भिः प्राप्यन्ते च भटित्रताम् । भोक्तुकामैर्विपच्यन्ते निगाल्यन्ते वैसार्थिभिः ॥ ३६ ॥ स्थलचारिषु चोत्पन्ना अबला बलवत्तरैः । मृगाद्याः सिंहप्रमुखैर्मायन्ते मांसकाङ्क्षिभिः ॥ ३७ ॥ मृगयासक्तचित्तैश्च क्रीडया मांसकाम्यया । नरैस्तत्तदुपायेन हन्यन्तेऽनपराधिनः ॥ ३८ ॥ क्षुधा पिपासा - शीतोष्णाऽतिभारारोपणादिना । कंसा-ऽङ्कुश-प्रतोदैश्च वेदनां प्रसहन्त्यमी ।। ३९ ।। खेचरास्तित्तिर-शुक-कपोत-चटकादयः । श्येन - सिश्चान-गृधाद्यैर्ग्रस्यन्ते मांसगृध्नुभिः ॥ ४० ॥ मांसलुब्धैः शाकुनिकैर्नानोपायप्रपञ्चतः । संगृह्य प्रतिहन्यन्ते नानारूपैविडम्बनैः ॥ ४१ ॥ जला-ऽग्नि-शस्त्रादिभवं तिरवां सर्वतो भयम् । कियद् वा वर्ण्यते स्वस्वकर्मबन्धनिबन्धनम् ॥ ४२ ॥ मनुष्यत्वेऽनार्यदेशे समुत्पन्नाः शरीरिणः । तत् तत् पापं प्रकुर्वन्ति यद् वक्तुमपि न क्षमम् ॥ ४३ ॥ उत्पन्ना आर्यदेशेऽपि चण्डाल-श्वपचादयः । पापकर्माणि कुर्वन्ति दुःखान्यनुभवन्ति च ॥ ४४ ॥ आर्यवंशसमुद्भता अप्यनार्यविचेष्टिताः । दुःख-दारिद्र्य दौर्भाग्यनिर्दग्धा दुःखमासते || ४५ ॥ परसम्पत्प्रकर्षेणापकर्षेण स्वसम्पदाम् । परप्रेष्यतया दग्धा दुःखं जीवन्ति मानवाः ।। ४६ ।। रुग्-जरा-मरणैस्ता नीचकर्मकदर्शिताः । तां तां दुःखदशां दीनाः प्रपद्यन्ते दयास्पदम् ॥ ४७ ॥ जरा रुजा मृतिर्दास्यं न तथा दुःखकारणम् । गर्भे वासो यथा वोरनरके वाससन्निभः ॥ ४८ ॥ १ वशार्थिभिः- शां. संपू. हे. ॥ २ कशा० - मु.॥ ३ ०डम्बितैः - खं. संपू. ॥ ४ दुःखं स्वस्वकर्मनिबन्धनम् - मु. ॥ ५ गर्भवासो - मु. ॥
For Private & Personal Use Only
alalala
10
।। ८५१ ।।
www.jainelibrary.org