________________
स्वोपक्ष
वृत्तिविभूषितं योगशास्त्रम्
चतुर्थः प्रकाशः श्लोकः ६७ ॥८५०॥
॥८५०॥
भवभावना
SHENEMIEKHIHEREHENSHEREKHEHEREHCHEHEROHIBHEMEMEENSHES
वायुकायत्वमप्याप्ता हन्यन्ते व्यजनादिभिः। शीतोष्णादिद्रव्ययोगाद् विपद्यन्ते क्षणे क्षणे ॥ २३॥ प्राचीनाद्यास्तु सर्वेऽपि विराध्यन्ते परस्परम् । मुखादिवातैर्वाध्यन्ते पीयन्ते चोरगादिभिः ॥ २४ ॥ वनस्पतित्वं दशधा प्राप्ताः कन्दादिभेदतः। छिद्यन्ते चाथ भिद्यन्ते पच्यन्ते चाग्नियोगतः ॥२५॥ संशोष्यन्ते निपिष्यन्ते प्लुष्यन्तेऽन्योन्यधर्षणैः। क्षारादिभिश्च दह्यन्ते संधीयन्ते च भोक्तृभिः ॥२६॥ सर्वावस्थासु खाद्यन्ते भज्यन्ते च प्रभञ्जनैः। क्रियन्ते भस्मसाद् दावैरुन्मूल्यन्ते सरित्प्लवैः ॥ २७॥ सर्वेऽपि वनस्पतयः सर्वेषां भोज्यतां गताः। सर्वैः शस्त्रैः सर्वदाऽनुभवन्ति क्लेशसन्ततिम् ।। २८ ॥ द्वीन्द्रियत्वे च ताप्यन्ते पीयन्ते पूतरादयः। चूर्ण्यन्ते कृमयः पादैर्भक्ष्यन्ते चटकादिभिः ॥ २९ ॥ शङ्खादयो निखन्यन्ते निःकृष्यन्ते जलौकसः। गण्डूपदाद्याः पात्यन्ते जठरादौषधादिभिः ॥३०॥ श्रीन्द्रियत्वेऽपि सम्प्राप्ते षट्पदी-मत्कुणादयः। विमृद्यन्ते शरीरेण ताप्यन्ते चोष्णवारिणा ॥ ३१ ॥ पिपीलिकास्तु तुद्यन्ते पादैः सम्मार्जनेन च । अदृश्यमानाः कुन्थ्वाद्या मथ्यन्ते चासनादिभिः ॥ ३२ ॥ चतुरिन्द्रियताभाजः संरघा-भ्रमरादयः। मधुमक्षैर्विराध्यन्ते यष्टि-लोष्टादिताडनैः ॥ ३३ ॥ ताड्यन्ते तालवृन्तायैाग् दंश-मशकादयः । ग्रस्यन्ते गृहगोधायैर्मक्षिका-मर्कटादयः ॥ ३४ ॥ पञ्चेन्द्रिया जलचराः खादन्त्यन्योन्यमुत्सुकाः। धीवरैः परिगृह्यन्ते गिल्यन्ते च बकादिभिः ॥ ३५ ॥ निकृष्यन्ते-मु. शां. खं. ॥ २ “सरघा मधुमक्षिका ॥ १२१३॥” इति अभिधानचिन्तामणौ ॥ ३ गल्यन्ते-शां. संपूमु.॥
HONEYCHERMISHCHCHEHRIDHSHEHCHCHCHCHCHCHRISHCRevera
स्वरूपम्
| www.jainelibrary.org