SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ ८४७॥ CIENCHSEECHEHEHEHEHENGEREHEHEHCHEHEHREEHCHEHENET योनि जन्तुः प्रविशति, तद्योग्यकर्मोपभोगानन्तरं तु तां विमुञ्चति, योन्यन्तर चोपादत्ते पुनश्च परिहरति, न पुनर्नियतः कोऽपि योनिपरिग्रहोऽस्तीति ॥ ६६ ॥ तथा समस्तलोकाकाशेऽपि नानारूपैः स्वकर्मतः । वालाग्रमपि तन्नास्ति यन्न स्पृष्टं शरीरिभिः ॥ ६७॥ इहाकाशं द्विविधम्-लोकाकाशमलोकाकाशं च। यत्र धर्मा-ऽधर्म-जीव-पुद्गलानां सम्भवोऽस्ति तल्लोकाकाशम् , इतरत्त्वलोकाकाशम् , यदाह "धमादीनां वृत्तिव्याणां यत्र भवति तत् क्षेत्रम् ।। तैव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् ।। १॥" [ ततः समग्रेऽपि लोकाकाशे चतुर्दशरज्ज्वात्मके वालाग्रमपि वालाग्रप्रमाणमपि तत् क्षेत्रं नास्ति यत् शरीरिभिरुत्पद्यमानर्विपद्यमानैश्च न स्पृष्टम् । अत्र हेतुमाह-किंविशिष्टैः शरीरिभिः? सूक्ष्म-बादर-प्रत्येक-साधारणैकेन्द्रियभेदतो द्वि-त्रि-चतु- पञ्चेन्द्रियभेदतश्च यथायोग्यं नानारूपैः। नानारूपत्वमपि कुतः ? स्वकर्मतः, न त्वीश्वरादिप्रेरणया, यथाहुः परे-- " अज्ञो जन्तुरनीशः स्यादात्मनः सुखदुःखयोः।। ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा ॥१॥" [महाभारते आरण्यकपर्वणि ३१-२७] १ यथायोग्यनानारूपैः-शां. खं.॥ २ “अशो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः। ईश्वरप्रेरितो गच्छेत् स्वर्ग नरकमेव च॥” इति महाभारते पाठः ।। HEHEREHENSICICISHCHCHEHCHCHRISIONEVEREHENSHISHCHERENCE 10 ॥८४७॥ Jain Education Internal For Private & Personal Use Only jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy