________________
स्वोपक्ष
चतुर्थः
वृत्ति
विभूषितं योगशास्त्रम्
REHEICHERRIERRECTETCHEIRIGHREHEHOREGIENETEL
अंथ भवभावनां श्लोकत्रयेणाह-- श्रोत्रियः श्वपचः स्वामी पत्तिर्ब्रह्मा कृमिश्च सः ।
प्रकाशः संसारनाट्ये नटवत् संसारी हन्त ! चेष्टते ॥६५॥
श्लोको संसारो नानायोनिषु सञ्चरणं स एव नाटयं नटकर्म तत्र नटवन् नर्तकवत् संसारी जन्तुचेष्टते विविधां चेष्टां
।। ८४६॥ । हन्तेत्यामन्त्रणे। केनोल्लेखेन चेष्टते ? श्रोत्रियो वेदपारगः स एव श्वपचो भवति. स्वामी प्रभुः स एव पत्तिर्भवतिक ब्रह्मा प्रजापतिः स एव कृमिर्भवति । यथेष्टं च विध्यनुवादो, तेन श्वपचः श्रोत्रियः, पत्तिः स्वामी, कृमिब्रह्मा, इत्यपि द्रष्टव्यम् । यथा हि नाटथे विविधवर्णकादियोगाद् भूमिकान्तरं नटाः प्रतिपद्यन्ते तथैव संसारी विविधकर्मोपाधेः श्रोत्रियादितां प्रतिपद्यते, भवभावनान पुनरस्य तथाविधं परमार्थतो रूपमस्ति ।। ६५॥ तथा--
स्वरूपम् न याति कतमां योनि कतमां वा न मुञ्चति ।
संसारी कर्मसम्बन्धादवक्रयकुटीमिव ॥ ६६ ॥ योनिमेकेन्द्रियादिलक्षणां कतमां न याति ? सर्वामपि यातीत्यर्थः, कतमा वा योनि न मुञ्चति ? सर्वामपि मुञ्चतीत्यर्थः, संसारी जन्तुः । कुतो हेतोरित्याह-कर्मसम्बन्धात् , अवक्रयकुटीमिव भाटककुटीमिव । यथा हि तथाविधोयोगहेतोय॒हमेधी एका कुटीं प्रविशति, उपयोगाभावे तां मुश्चति; उपयोगान्तराञ्च कुट्यन्तरमादत्ते परिहरति च, एवं नियतकर्मोपभोगहेतोरेका
१ अथ संसारभावनां-संपू. मु.॥ २ करोतीति-मु.॥ ३ ०पाधिः-शां. विना ॥ ४ ०पयोगाद्धेतो०-खं. हे. ॥
MEHEHCHEHREACHEHERRIERREHEREHEHEHREEHCHEHETEST
Jain Education Inten
For Private & Personal Use Only
FEww.jainelibrary.org