________________
।। ८४५ ।।
Beeeeee
вые
Jain Education Interio
षष्टिं पुत्रसहस्राणि सगरस्यापि चक्रिणः । तृणवत् त्राणरहितान्यदहज्ज्वलनप्रभः ॥ ४ ॥ आस्कन्द्य स्कन्दकाचार्य मुनिपञ्चशतीं नतः । न कश्चिदभवत् त्राता पालकादन्तकादिव ॥ ५ ॥ यथा मृत्युप्रतीकारं पशवो नैव जानते । विपश्चितोऽपि हि तथा धिक् प्रतिकारमूढताम् || ६ || येऽसिमात्रोपकरणाः कुर्वते क्ष्मामकण्टकाम् । यमभ्रूभङ्गभीतास्तेऽप्यस्ये निदधतेऽङ्गुलीः ॥ ७ ॥ स्नेहादाश्लिष्य शक्रेणार्द्धासनेऽध्यास्यते स्म यः । श्रेणिकः सोऽप्यशरणोऽश्रोतव्यां प्राप तां दशाम् ॥ ८ ॥ मुनीनामप्यपापानामसिधारोपमैर्व्रतैः । न शक्यते कृतान्तस्य प्रतिकर्तु कदाचन ॥ ९ ॥ अशरण्यमहो ! विश्वमराजकमनायकम् । यदेतदप्रतीकारं ग्रस्यते यमरक्षसा ॥ १० ॥ योsपि धर्मः प्रतीकारो न सोऽपि मरणं प्रति । शुभां गतिं ददानस्तु प्रतिकर्तेति कीर्त्यते ॥ ११ ॥
एवं विश्वमनाकुलः कवलयनाब्रह्म कीटावधि,
श्रान्तिं याति कथञ्चनापि न खलु त्रैलोक्यभीमो यमः । नैवास्य प्रतिकारकर्मणि सुराधीशोऽप्यलं भूष्णुता
१ दृश्यतां पृ० ३९७ ॥ ३ धर्मप्रतीकारो - संपू. हे. मु. ॥
मालम्बेत शरण्यवर्जितमिदं हा ! हा ! जगत् ताम्यति ॥ १२ ॥
अशरणभावना ॥ २ ॥ ६४ ॥
२ दृश्यतां त्रिषशिला कापुरुषचरित्रे सप्तमे पर्वणि जैनरामायणे पञ्चमे सर्गे श्लो० ३३५-३६२ ।।
For Private & Personal Use Only
eeeeee
10
॥। ८४५ ॥
www.jainelibrary.org