SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् ॥ ८४४ ॥ Jain Education Int शोचन्ति शोकविषयतां नयन्ति स्वजनान् बन्धून्, अन्तमवसानं नीयमानान् स्वकर्मभिर्भवान्तरभेदनीयैः 'मूढबुद्धयः ' | इत्युत्तरेण योगः । आत्मानं तु स्वकर्मभिरेवान्तं नेष्यमाणं न शोचन्ति । संनिहितपरित्यागे हि व्यवहितं प्रति कारणं वाच्यम्, संनिहितश्रात्मा, तस्य शोचनीयतां मुक्त्वा व्यवहितस्य स्वजनादेः शोचनं बुद्धिमोहनिबन्धनमेव ॥ ६३ ॥ अशरणभावनामुपसंहरति- संसारे दुःखदावाग्निज्वलज्ज्वालाकरालिते । वने मृगार्भकस्येव शरणं नास्ति देहिनः ॥ ६४ ॥ संसारे शरणं देहिनो नास्ति । कस्येव कुत्र ? वने मृगार्भकस्येव । किंविशिष्टे संसारे ? दुःखमेव दावाग्निस्तस्य ज्वलन्त्यो या ज्वाला दुःखस्यैव प्रभेदास्तैः करालिते रौद्रे । वने किंविशिष्टे ? दुःखो दुःखहेतुर्यो दावाग्निस्तस्य ज्वलन्त्यो या ज्वालास्ताभिः करालिते । अर्भकग्रहणमतिमौग्ध्यख्यापनार्थम् । अशरणभावना । nal अत्रान्तरश्लोकाः अष्टाङ्गेनायुर्वेदेन जीवातुभिरथागंदैः । मृत्युंजयादिभिर्मन्त्रैस्त्राणं नैवास्ति मृत्युतः ॥ १ ॥ खड्गपञ्जरमध्यस्थश्चतुरङ्गचमृवृतः । रङ्कवत् कृष्यते राजा हठेन यमकिङ्करैः ॥ २ ॥ जलमध्यस्थितस्तम्भमूर्धपञ्जरमध्यगम् । राज्ञः प्रियसुतं मृत्युश्वकर्षाऽन्यस्य का कथा ? ॥ ३ ॥ १ ० मूर्ध्वप०- मु. ॥ For Private & Personal Use Only Heeeeeeeeeedaaaaaaaaaaaaaaaa चतुर्थः प्रकाशः श्लोकः ६४ 11 288 11 5 अशरण भावना वर्णनम् 10 www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy